Table of Contents

<<7-2-63 —- 7-2-65>>

7-2-64 वभूथाऽततन्थजगृभ्मववर्थ इति निगमे

प्रथमावृत्तिः

TBD.

काशिका

बभूथ आततन्थ जगृभ्म ववर्थ इत्येतानि निपात्यन्ते निगमविषये। निगमो वेदः। त्वं हि होता प्रथमो बभूथ। बभूविथ इति भाषायाम्। आततन्थ येनानतरिक्षमुर्वाततन्थ। आतेनिथ इति भाषायाम्। जगृभ्म जगृभ्मा ते दक्षिणमिन्द्र हस्तम्। जगृहिम इति भाषायाम्। ववर्थ ववर्थ त्वं हि ज्योतिषा। ववरिथ इति भाषायाम्। क्रादिसूत्रादेव अस्य प्रतिषेधो सिद्धे नियमार्थं वचनम्, निगमे एव, न भषायाम् इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

357 निगमो- वेदः। तदाह– एषां वेदे इति। ननु `कृसृभृवृ' इतिनिषेधादेव थलि ववर्थेति सिद्धे किमर्थं ववर्थग्रहणमित्यत आह– तेन भाषायां थलीडिति। निगमे एव वृणोतेस्थलि इण्निषेध इति नियमलाभादिति भावः। व्रवे व्रवाते। ववृषे। `वृ?तो वा' इति मत्वाह - - वरितावरीतेति।

तत्त्वबोधिनी

312 बभूथाततन्थ। भूधातोस्तनोतेश्च थलि इडभावो निपात्यते। `त्वं हि होता प्रथमो बभूथ'। `येनान्तरिक्षमुर्वा ततन्थ'। भाषायां तु बभूविथ तेनिथ। `जगृम्भा तेदक्षिणमिन्द्र हस्तम्'। भाषायां तु जगृहिम। वृणोतेस्थलि क्रादिसूत्रेणेण्निषेधे सिद्धेऽपि निगम एव निषेधो नान्यत्रेति। नियमार्थं ववर्थग्रहणम्। `ववर्थ त्वं हि ज्योतिषाम्'। भाषायां तु ववरिथ। ववृषे।

Satishji's सूत्र-सूचिः

TBD.