TBD.
छन्दसि इत्यतःप्रभृति निवृत्तम्। अश्व क्षीर वृष लवण इत्येतेषाम् अङ्गानाम् आत्मप्रीतिविषये क्यचि परतो ऽसुगागमो भवति। अश्वस्यति वडवा। क्षीरस्यति माणवकः। वृषस्यति गौः लवणस्यत्युष्ट्रः। आत्मप्रीतौ इति किम्? अश्वीयति। क्षीरियति। वृषीयति। लवणीयति। अश्ववृषयोर्मैथुनेच्छायाम् इति वक्तव्यम्। क्षीरलवणयोर् लालसायाम् इति वक्तव्यम्। तृष्णातिरेको लालसा। अन्यत्रात्मप्रीतावपि न भवति। अपर आह सर्वप्रातिपदिकेभ्यो लालसायामसुग्वक्तव्यः। दध्यस्यति, मध्वस्यति इत्येवम् आद्यर्थम्। अपर आह सुग्वक्तव्यः। दधिस्यति, मधुस्यति इत्येवम् आद्यर्थम्।
TBD.
–
487 अ\उfffदाक्षीर क्यचि। `परे असु'गिति शेषपूरणम्, `आज्जसेरसु'गित्यतस्तदनुवृत्तेरिति भावः। असुकि ककार इत्,उकार उच्चारणार्थः। कित्त्वादन्त्यावयवः। अ\उfffदावृषयोरिति - वार्तिकम्। अ\उfffदास्यति वडवेति। मैथुनार्थम\उfffदामिच्छतीत्यर्थः। वृषस्यति गौरिति। मैथुनार्थं वृषमिच्छतीत्यर्थः। `वृषस्यन्ती तु कामुकी'ति कोशस्तु अ\उfffदावृषरूपप्रकृत्यर्थपरित्यागेव मैथुनेच्छामात्रे लाक्षणिकः। क्षीरलवणयोरिति - वार्तिकम्। `असु ' गिति शेषः। लालसा - उत्कटेच्छा। सर्वप्रातिपदिकानामिति। इदमपि वार्तिकम्। लालसायां सर्वेषां प्रातिपदिकानां क्यच् वक्तव्यः। तस्मिन् परे प्रकृतीनां सुगसुकौ च वक्तव्यौ इत्यर्थः। नचानेनैव वार्तिकेन सिद्धे `क्षीरलवणयोर्लालसाया'मिति वार्तिकं व्यर्थमिति शङ्क्यं, `क्षीरलवणयोर्लालसाया'मिति वार्तिकं व्यर्थमिति शङ्क्यं, `क्षीरलवणयो'रिति वार्तिकं कात्यायनीयं, `सर्वप्रातिपदिकाना'मिति तु मतान्तरमित्यदोषात्। एतच्च भाष्ये `अपर आहे'त्यनेन ध्वनितम्।
418 अ\उfffदाक्षीर। `आज्जसे'रित्यतोऽसुगिति वर्तते। अ\उfffदावृषयोर्मैथुनेच्छायाम्। अ\उfffदास्यतीति। मैथुनार्थम\उfffदामिच्छतीत्यर्थः एवं मैथुनार्थं वृषमिच्छति वृषस्यति गौः। ननु `इति रामो वृषस्यन्ती'मिति प्रयोगो मनुष्यविषये कथं सङ्गच्छत इति चेत्। अत्राहुः- - अ\उfffदावृषरूपप्रकृत्यर्थपरित्यागेन मैथुनेच्छैवार्थः, अतएव `वृषस्यन्ती तु कामुकी'ति कोशोऽपि स्वरसतः सङ्गच्छते इति। उत्कटेच्छायामित्यर्थः।
TBD.