TBD.
भू सुधी इत्येतयोर् यणादेशो न भवति। प्रतिभुवौ। प्रतिभुवः। सुधियौ। सुधियः।
TBD.
203 एतयोरचि सुपि यण्न. सुधियौ. सुधिय इत्यादि.. सुखमिच्छतीति सुखीः. सुतीः. सुख्यौ. सुत्यौ. सुख्युः. सुत्युः. शेषं प्रधीवत्. शम्भुर्हरिवत्. एवं भान्वादयः..
271 न भूसुधियोः। ‘इणो य’णित्यतो यणिति, ‘ओः सुपी’त्यतः सुपीति, ‘इको यणची’त्यतोऽचीति चानुवर्तते। तदाह–एतयोरित्यादिना। एतयोरिति-सूत्रोक्तभूसुधियोः परामर्शः। अचीति। अजादावित्यर्थः। यणि प्रतिषिध्दे इयङमभिप्रेत्य आह–सुधियाविति। आदिना अजादिसर्वसङ्ग्रहः। प्रधीवद्रूपाणि। इयङेव विशेषः। अचीति वस्तुस्थितिः। अनजादौ यणः प्रसक्त्यभावात्। सुपीति किम् ? सुधीभिरूपास्यः सुध्युपास्यः। वस्तुतस्तु सूपीति नानुवर्तनीयम्। ‘एरनेकाचः’ इति यणो ह्रत्र न प्रसक्तिः, तस्य अजादिप्रत्यये विधानादुपास्यशब्दस्य च प्रत्ययत्वाऽभावात्। ‘इको यणची’ति तु भवत्येव, ‘अनन्तरस्य’ इति न्यायेन ‘एरनेकाचः’,‘ओः सुपी’ति च विहतयण एव प्रतिषेधात्। सुधिया उपास्यः सुध्युपास्य इत्यत्र त्वन्तर्वर्तिनीं विभक्तिमाश्रित्य ‘एरनेकाचः’ इति यणो ‘न भूसुधियोः’ इति प्रतिषेधेऽपि ‘उपास्यः’ इत्यचमाश्रित्य ‘इको यणची’ति यण् भवत्येव, ‘अनन्तरस्ये’ति न्यायेन तस्याऽत्र प्रतिषेधाऽभावादित्यलम्। ‘अकृत्सार्वधातुकयो’रिति दीर्घे ‘सखीयती’ति रूपम्। ततः क्विबिति। तस्मात् सखीयशब्दात् ‘सनाद्यन्ताः’ इति दातुसंज्ञकात् ‘क्विप्चे’ति सूत्रेण क्विबित्यर्थः। अल्लोपयलोपाविति। ‘अतोः लोपः’ इति यकारादकारस्य लोपः, ‘लोपो व्यो’रिति यलोप इत्यर्थः। यलोपे कर्तव्येऽल्लोपस्तु न स्थानिवत्, ‘न पदान्ते’ति यलोपे स्थानिवत्त्वनिषेधात्। स्थानिवत्त्वादिति। ‘अचः परस्मिन्नित्यनेने’ति शेषः। यणि प्राप्ते इति। ‘खकारादीकारस्य ‘इको यणचीत्यनेने’ति शेषः। न चान्तर्वर्तिसुपा पदान्तत्वा’न्न पदान्ते’ति निषेधः शङ्क्यः, ‘नः क्ये’ इति क्यचि नान्तस्यैव पदत्वात्। ‘क्विलुगुपधात्वचङ्परनिह्र्यासकुत्वेषूपसङ्ख्यान’मिति वार्तिके ‘क्विलु’गित्यंशस्यायमनुवादः। तत्र ‘लु’गिति लोपो विवक्षित इति तत्रैव भाष्ये स्पष्टम्। लुप्तमिति भावे क्तः। क्विप्प्रत्ययपरको लोपो न स्थानिवदित्यर्थः। ततस्च खकारादीकारस्याऽच्परकत्वाऽभावान्न यणिति भावः। यद्यपि ‘न पदान्ते’ति सूत्रे ‘क्वौ लुप्तं न स्थानिव’दिति निराकृत्य, ‘क्वौ विधिं प्रति न स्थानिव’दित्येव स्वीकृतं तथापि गोमत्यतेः क्विपि गोमानिति भाष्यात्क्वौ लुप्तं न स्थानिवदित्यपि क्वचिदस्तीति शब्देन्दुशेखरे स्थितम्। ततस्च सखायमिच्छतीत्यर्थे सखीति ईदन्तं रूपं स्थितम्। ततः सुबुत्पत्तिः। अनङ्णित्वे इति। ‘अनङ् सौ’ ‘सख्युरसम्बुद्धौ’ इत्युभाभ्या’मिति शेषः। इदन्तसखिशब्दस्य विधीयमाने अनङ्णित्त्वे कथं सखीशब्दस्य ईदन्तस्य भवेतामित्यत आह–एकदेशेति। हे सखीरिति। अङ्यन्तत्वान्न सुलोपः। स्त्रीत्वाऽभावान्नदीत्वाऽभावान्नदीकार्यं न भवति। यणि प्राप्ते इति। ‘एरनेकाचः इत्यनेने’ति शेषः। शसि यणिति। पूर्वसवर्णदीर्घापवादो यण्। कृतपूर्वसवर्णदीर्घत्वाऽभावान्नत्वं नेति भावः। सख्या। सख्ये। सख्युः। सख्योः। सख्यौ। सह खेनेति। खमाकाशं खकारो वा। ‘तेन सहेति तुल्ययोगे’ इति बहुव्रीहिः। ‘वोपसर्जनस्ये’ति सभावः। तमिच्छतीति। सखमात्मन इच्छतीत्यर्थे ‘सुप आत्मनः’ इति क्यच्। ‘क्यचि चे’तीत्वं, ‘सनाद्यन्ताः’ इति धातुत्वात्क्विपि अल्लोपयलोपयोः सखीशब्दः। एवं सुखीशब्दः, सुतीशब्दश्च। सखीरिति। अङ्यन्तत्वान्न सुलोपः। सख्यावित्यादि। अजादौ ‘एरनेकाचः’ इति यणिति भावः। सख्यम्। सख्यः सख्या। सख्ये। सख्यि। सुखीसुतीशब्दयोरप्येवम्। लूनीरिति। ‘लूञ् छेदने’क्तः। ‘त्वादिभ्यः’ इति नत्वम्। क्यचि ईत्वम्। अङ्यन्त्रत्वान्न सुलोपः। ‘क्षै क्षये’ क्तः। ‘आदेच उपदेशेऽशिती’त्यात्त्वम्। ‘क्षायोः मः’ इति मत्वम्। क्यजादि पूर्ववत्। प्रस्तीमीरिति। ‘स्त्यै ष्ट्यै शब्दसङ्घातयोः’ क्तः। ‘आदेचः’ इत्यात्त्वम्। ‘प्रस्त्योऽन्यतरस्या’मिति मः। ‘स्त्यः प्रपूर्वस्ये’ति सम्प्रसारणम्। ‘सम्प्रसारणाच्चे’ति पूर्वरूपम्। ‘हलः’ इति दीर्घः। क्यजादि पूर्ववत् सखी सुतीत्यादिवद्रूपाणि। ङसिङसोर्यणिति। ‘एरनेकाचः’ इत्यनेने’ति शेषः। ‘असिद्धत्वा’दित्यनन्तरं ‘त्यात्परत्वा’दिति शेषः। शुष्कीयतेरिति। ‘इक्शितपौ धातुनिर्देशे’ इति श्तिपा निर्देशोऽयम्। शुषधातोः क्तः। शुष्कः। ‘शुषः कः’ इति कत्वम्। शुष्कमात्मन इच्छतीत्यर्थे क्यजन्ताच्छुष्कीयधातोः क्विपि शुष्कीरिति रूपमित्यर्थः। अङ्यन्तत्वान्न सुलोपः। सखी सुतीत्यादिशब्दवच्छुष्कीशब्दः। शुष्कियावित्यादि। संयोगुपूर्वत्वान्न यण्, किं तु इयङिति विशेष इति इति भावः। ङसिङसोः शुष्किय इति। न च कत्वस्याऽसिद्धत्वात्ख्यत्यात्परत्नादुत्त्वं शङ्क्यम्, इयङादेशे सति कृतयणादेशत्वाऽभावादिति भावः। इति ईदन्ताः। शम्भुर्हरिवदिति। तत्र पूर्वसवर्णदीर्घ ऊकारः, गुणस्तु ओकारः, अवित्यादयो विशेषास्त्वान्तरतदम्यात्सङ्गता इति भावः। ‘क्रुश आह्वाने, रोदने चे’ति धातोः ‘सितनिगमिमसिसच्यविधाञ्क्रुशिभ्यस्तुन्’ इति तुन्प्रत्यये ‘व्रश्चे’ति शस्य षकारे, ष्टुत्वेन टकारे च क्रोष्टुशब्दः। क्रुशधातो कर्तरि तृचि तु क्रोष्टृशब्दः। द्वावपि सृगालवाचिनो।
234 अचि सुपीति। सुपीति किम्? सुध्युपास्यः। वस्तुतस्तु सुपीत्यननुवृत्तावपि न क्षतिः, ‘अनन्तरस्ये’ति न्यायेन‘एरनेकाचः’इति ‘ओः सुपी’ति च सूत्रद्वयेन प्रापितस्यैव यणो ‘न भूसुधियो’रिति निषेधाभ्युपगमात्। स्थानिवत्त्वाद्यणि प्राप्त इति। ‘एरनेकाचः—’इत्यनेन। न चान्तर्वर्तिनीं विभक्तिमाश्रित्य सखि शब्दस्य पदत्वात् ‘न पदान्ते’ति निषेधेन अल्लोपो न स्थानिनदिति वाच्यम्, ‘ नः क्ये नियमेन क्यचि नान्तस्यैव पदत्वात्।’ ‘नपुंसके भावे क्तः’। क्वौ लोप इत्यर्थः। इदं सर्वं कुमारीमिच्छन् किमारीत्यत्रापि बोध्यम्। ‘क्वौ लुप्त’मित्येतत्क्काचित्कं, ‘क्वौ विधिं प्रति न स्थानिव’दित्यब्युपगमात्। अन्यथा ‘बेभिदि ब्राआहृणकुलानी ति हलन्तनपुंसके वक्ष्यमाणं न सङ्गच्छेत। बेभिद्यतेः क्किपि अल्लोपे यलोपे च क्वौ लुप्तत्वेनाऽल्लोपस्य स्थानिवत्त्वाऽभावे झलन्तलक्षणनुम्प्रसङ्गात्। ‘क्वौ विधिं पर्ति न स्थानिव’ दित्यस्योदाहरणं तु लवमाचक्षाणोः लौः। अत्र णिचि यष्टिलोपो, यश्च क्वौ णिलोपः, तदुभयं ‘छ्वोः शू’डिति वकारस्य क्विनिमित्ते ऊठि कर्तव्ये न स्थानिवत्। ‘एत्येदत्यूठ्सु’इति वृद्धिः। अत्रेदमवधेयम्, -‘न पदान्ते’ति सूत्रे ‘क्विलुगुपधात्वचङ्परनिह्र्यासकुत्वेषूपसङ्ख्यान’मिति वार्तिकमस्ति तदेकदेशानुवादोऽयं ‘क्वौ लुप्त’मित्यादीति। ‘लुका लुप्ते न स्थानिव दित्यादीनामप्युदाहरणान्यत्रोच्यन्ते। पञ्चभिः पट्वीबिः क्रीतः पञ्चपटुः। ‘अर्हा’दिति ठक्, तस्य ‘अध्यर्धपूर्वे’ति लुक्, ‘लुक्तद्धितलुकी’ति ङीषो लुक्। तस्य लुका लुप्तत्वेन स्थानिवत्त्वाऽभावादत्र यणादेशो न भवति। न च ङीषो लुकः परनिमित्तकत्वाऽभावात्स्थार्निवत्त्वं न भवेदिति शङ्कयं, ङीषो लुकं प्रति स्थानिद्वारा तद्धितलुकः परत्वस्वीकारात्। यद्वा बुद्धि परिक्लिपतं पौर्वापर्यमभावेऽप्यस्तीति नास्त्यत्राऽनुपपत्तिः। न च अढे तद्धिते विवक्षिते ‘भास्यैढे’इति पुंवद्भावादुक्तनिषेधं विनैवेष्टसिद्धिरित्यपि शङ्क्यं, ‘यत्र भाविभत्वं तत्रैव पुंवद्भावः, इह तु लुकि भत्वाऽभावात्कुतः पुंवद्भाव’इति कैयटेनोक्तत्वात्। तथा पञ्चेन्द्राण्यो देवता अस्य पञ्चेन्द्रः। ‘सास्य देवते’त्यण्। ‘द्विगोर्लुगनपत्ये इति लुक्। ततो ङीषो लुकि तस्य स्थानिवत्त्वाऽभावान्ङीषा संनियुक्त आनङ् श्रूयते। पुंवद्भावास्यात्राऽऽशङ्कापि नास्ति, इन्द्रे इन्द्रत्वमिन्द्राण्यामिन्द्रस्त्रीत्वमिति प्रवृत्तिनिमित्तभेदे भाषितपुंस्कत्वस्यानभ्युपगमात्। ये तु ‘न पदान्ते’ति सूत्रे ‘वर-ई’इति ईकारप्रश्लेषं कुर्वन्तितेषामिह लुग्ग्रहणं न कार्यम्। ‘उपधात्वे कर्तव्ये न स्थानिवत्’। तेन परिखाशब्दाच्चातुरर्थिके अणि कृते ‘वृद्धादकेकान्ते’त्यादिना पारिखशब्दत्खोपधलक्षणे छप्रत्यये ‘पारिखीयः’सिध्ति। अन्यथा उपधासंज्ञायाः पूर्वविधित्वेन तस्यां कर्तव्यायामालोपः स्थानिवत्स्यात्। नन्वेवं ‘पटयती’त्यादौ वृद्धिः स्यादिति चेन्न, यत्रोपधासंज्ञयामुपजीव्यप्रत्ययो विहिततस्तत्रैवायं निषेध इति भाष्ये स्थितत्वात्। तत्र च चङ्परनिपह्र्यासग्रहणमेव ज्ञापकम्– ‘चङ्परनिर्ह्?रासस्तत्र न स्थानिवत्’। वादितवन्तं प्रयोजितवान् अवीवद्वीणां परिवांदकेन। अत्र पर्थमणिलोपस्य स्थानिवत्त्वादाकारोऽनुपधेति ‘णौ चङी’त्युपधाह्यस्वो न प्राप्तोति। णिसामान्यग्रहणादेतत्सिद्धमिति चेत्, तह्र्रन्यदुदाहर्तव्यं, वारि आख्यदवीवरत्। न च ‘अग्लोपी’ति निषेधः शङ्क्यः, परत्वाद्वृद्धौ सत्यां टिलोप इत्यभ्युपगमेनाऽग्लोपित्वाऽभावात्। अतएव ‘मुण्डमिश्रे’ति सूत्रे हलिकल्योर्हलकलेत्यदन्तनिपातनं सार्थकम्। ‘कृत्वे न स्थानिवत्’। अर्चयतेरर्कः। ‘कृदाधारार्चिकलिभ्यः’इति कः। पाचयतेः पाक्तिः। इ ह‘चोः’ ‘कु’रिति कुत्वे णिलोपो न स्थानिवत्। वार्तिकेऽस्मिन् क्विचङ्परनिह्र्यासोपधानां ग्रहणमावश्यकं। कृत्वे न स्थानिवत्,लुक ईकारप्रश्लेषेण गतार्थत्वात्, कुत्वस्य पूर्वत्रासिद्धीयत्वाच्चेत्यवधेयम्। ‘चजो’रिति कुत्वे चोदाहरणमन्वेषणीयम्। सख इति। ‘तेन सहेती’ति बहुव्रीहौ ‘वोपसर्जनस्ये’ति सभावः। सखीरित्यादि। ‘सुपाअत्मनः क्यच्’। ‘क्यचि च’ इतीत्त्वम्। दीर्घस्यापीति। एतदर्थं कृतयणदेश इति भावः। ननु अतिसखेर्भूपतेरिति गुणविषयं व्यापर्तयितुं यणा निर्देश इति चेदस्त्वेवं, तथापि दीर्घे प्रवृत्तिः केन वार्यताम्?। न हि ह्यस्वे यणा भाव्यं न दीर्घेष्वित्यत्र प्रमाणमस्ति। सौत्रस्य विकृतिनिर्देशस्याऽव्याप्त्यतिव्याप्त्युभयवारकत्वे सारवत्त्वलाभेन तथैवौचित्याद्भाष्यारूढत्वाच्च। लूनमिति। ‘ल्वादिभ्यः’इति निष्ठातस्यः नः। क्षाममिति। ‘क्षयो मः’इति मः। ‘स्त्यःप्रपूर्वस्ये’ति संप्रासारणम्। शुष्कीरिति। ‘शुषः कः’इति निष्ठातस्य कः। पक्वीरिति। ‘पचोः वः’इति वः। इयङिति। संयोगपूर्वत्वादिवर्णस्य यण्नेति भावः। इतीदन्ताः। हरिवदिति। तद्वत्साध्य इत्यर्थः।
TBD.