Table of Contents

<<6-4-6 —- 6-4-8>>

6-4-7 नोपधायाः

प्रथमावृत्तिः

TBD.

काशिका

नान्तस्य अङ्गस्य उपधायाः नामि परतो दीर्घो भवति। पञ्चानाम्। सप्तानाम्। नवानाम्। दशानाम्। नः इति किम्? चतुर्णाम्। नामि इत्येव, चर्माणाम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

300 नान्तस्योपधाया दीर्घो नामि. पञ्चानाम्. पञ्चसु..

बालमनोरमा

पञ्चन् आम् इति स्थिते ‘षट्चतुभ्र्यश्चे’ति नुटि नलोपे तस्याऽसिद्धत्वात् ‘नामि’ इति दीर्घेऽप्राप्ते आह–नोपधायाः। ‘ने’ति सुप्षष्ठीकम्, अङ्गस्येत्यधिकृतस्य विशेषणम्। तदन्तविधिः। ‘ढ्रलोपे’ इत्यतो ‘दीर्घ’ इत्यनुवर्तते, ‘नामि’ इति सूत्रं च। तदाह–नान्तस्येत्यादिना। नलोप इति। नलोपस्याऽसिद्धत्वात्प्रथमं दीर्घे ततो नलोप इत्यर्थः। परमेति। परमाश्च ते पञ्च चेति विग्रहः। ‘षड्भ्यो लुक्’ इत्यस्य ‘षट्चतुभ्र्यश्चे’त्यस्य चाङ्गत्वात्तदन्तेऽपि प्रवृत्तिरिति भावः। प्रियाः पञ्च यस्येति बहुव्रीहिः। प्रियपञ्चन्शब्दो विशेष्यनिघ्नः त्रिलिङ्गः। तस्य पुंस्त्वे विशेषमाह–गौणत्वे त्विति। ‘षड्भ्यो लु’गिति ‘षट्चतुभ्र्यश्चे’ति च बहुवचननिर्देशेन षट्चतुरर्थप्राधान्यावगमादिति भावः। प्रयिपञ्चेति। सुटि हलादौ च राजवत्। शसादावचि तु ‘अल्लोपोऽनः’ इत्यकारलोप नस्य श्चुत्वेन ञकारः। चकारे तु परेऽनुस्वारस्य परसवर्णे ञकारः स्थित एव। तथाच ञकारद्वयमध्ये चकारः। अष्टन्शब्दो नित्यं बहुवचनान्तः।

तत्त्वबोधिनी

331 नोपधायाः। ‘ने’ति लुप्तषष्ठीकं पदमङ्गस्य विशेषेणम्। नलोपस्यऽसिद्धत्वात् ‘नामी’पि दीर्घो न प्रवर्तत इत्ययमारम्भः। गौणत्वे त्विति। बहुवचमनिर्देशस्यार्थप्राधान्यार्थत्वादिति भावः। प्रियपञ्च्ञामिति। ञद्वयमध्ये चकारः।

Satishji’s सूत्र-सूचिः

213) नोपधायाः 6-4-7

वृत्ति: नान्तस्योपधाया दीर्घः स्यान्नामि परे। The penultimate vowel of an अङ्गम् ending in a नकारः is lengthened when followed by नाम्।

उदाहरणम् – पञ्चन् + आम् – Since पञ्चन् has the षट् सञ्ज्ञा by 1-1-24 we get = पञ्चन् + नाम् 7-1-55, 1-1-46, 1-3-2, 1-3-3 = पञ्चान् + नाम् 6-4-7 – Since पञ्चान् has पद-सञ्ज्ञा here by 1-4-17 we get = पञ्चानाम् 8-2-7