Table of Contents

<<6-4-26 —- 6-4-28>>

6-4-27 घञि च भावकरनयोः

प्रथमावृत्तिः

TBD.

काशिका

भावकरनवाचिनि घञि परतो रञ्जेः उपधाया नकारस्य लोपो भवति। भावे आश्चर्यो रागः। विचित्रो रागः। करणे रज्यते अनेन इति रागः। भावकरणयोः इति किम्? रजन्ति तस्मिन्निति रङ्गः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

856 रञ्जेर्नलोपः स्यात्. रागः. अनयोः किम्? रज्यत्यस्मिन्निति रङ्गः..

बालमनोरमा

तत्त्वबोधिनी

1518 प्रायिकमिति। सर्वात्मना संज्ञाग्रहमत्यागे `कृतः कटर' इत्यत्र `कारः कट' इति स्यादिति भावः। भाष्ये त्वनभिधानमाश्रित्य प्रत्याख्यातम्।

Satishji's सूत्र-सूचिः

TBD.