Table of Contents

<<6-3-29 —- 6-3-31>>

6-3-30 दिवसश् च पृथिव्याम्

प्रथमावृत्तिः

TBD.

काशिका

पृथिव्याम् उत्तरपदे देवताद्वन्द्वे दिवो दिवसित्ययम् आदेशो भवति, चकाराद् द्यावा च। दिवस्पृथिव्यौ। द्यावापृथिव्यौ। अकारोच्चारणम् सकारस्य विकाराभावप्रतिपत्त्यर्थम्। तेन रुत्वदीनि न भवन्ति। कथं द्यावा चिदस्मै पृथिवी नमेते इति? कर्तव्यो ऽत्र यत्नः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

दिवसश्च पृथिव्यां। दिव इत्येवेति। दिव इत्यनुवर्तत एवेत्यर्थः, स्वरितत्वादिति भावः। तर्हि चकारो व्यर्थ इत्यत आह–चादिति। तथा च दिव्शब्दस्य दिवसादेशो, द्यावादेशश्च स्यात्पृथिवीशब्दे उत्तरपदे परे देवताद्वन्द्वे इत्यर्थः। `दिवस्पृथिव्याः' इत्यत्र सकारादकारस्याऽश्रवणाद्दिवसादेशस्य सकारान्तत्वावश्यंभावादादेश सकारादकारोच्चारणस्य किं प्रयोजनमित्यत आह– आदेशेऽकारोच्चारणमिति। सामथ्र्यात् `ससजुषो रु'रिति रुत्वं नेति भावः। ननु `द्यावा चिदस्मै पृथिवी सन्नमेते' इत्यत्र दिव्शब्दपृथिवीशब्दयोः कथं द्वन्द्वः ?, कथं वा दिवो द्यावा देशः?, उत्तरपदस्य `चिदस्मै' इत्यनेन व्यवहितत्वादित्यत आह–छन्दसि दृष्टानुविधिरिति॥ भाष्यवाक्यमेतत्। वेदे दृष्टानुसरणमित्यर्थः। यतादृष्टं तथा प्रक्रिया कल्पनीयेति भावः। पदकारा इति। `दिवस्पृथिव्यो'रित्यवग्रहे विसर्गं पठन्तीत्यर्थः। `पदकारा' इत्यनेन पदपाठस्याधुनिकत्वं सूचितम्। तथाच विसर्गपाठः प्रामादिक इति सूचितम्, अकारोच्चारणेन रुत्वनिवृत्तेरुक्तत्वात्। उषासोषसः। उषासासूर्यमिति। उषाश्च सूर्यश्चेति समाहारद्वन्द्वः। मातरपितरावुदीचाम्। उदीचां मते मातरपितराविति भवतीत्यर्थः। अत्र मातृशब्दस्याऽरङादेशो निपात्यते। मातापितराविति। अरङभावे `आनङृतः' इत्यानङ्। द्वन्द्वाच्चुदष। समासान्ताधिकारस्थं तद्धिताधिकारस्थं चेदं सूत्रम्। टच्स्यादिति। `राजाहःसखिभ्यः' इत्यतस्तदनुवृत्तेरिति भावः। वाक्त्वचमिति। वाक्य त्वक्चेति समाहारद्वन्द्वः। कुत्वस्याऽसिद्धत्वाच्चवर्गान्तत्वाट्टच्।एवं त्वक्रुआजमित्यत्रापि। त्वक्च रुआक्चेति विग्रहः। शमीदृषदमिति। शमी च दृषच्चेति विग्रहः। दकारान्तत्वाट्टच्। वाक्त्विषमिति। वाक्च त्विट्। चेति विग्रहः। षान्तत्वाट्टच्, जश्त्वस्याऽसिद्धत्वादिति भावः। छत्रोपानहमिति। छत्रं च उपानच्चेति विग्रहः। हान्तत्वाट्टच्। प्रावृट्शरदाविति। प्रावृट् च शरच्चेति विग्रहः। इतरेतरयोगद्वन्द्वत्वान्न टजिति भावः।

बालमनोरमा

यांद्वन्द्वसमासः* द्विरुक्तप्रक्रिया।

तत्त्वबोधिनी

792 रुत्वं मा भूदिति। अकारे सति सकारस्य श्रवणं भवति, तेन प्रयोगे विकाराऽभावोऽनुमीयत इति भावः। `क्वचिद्वकारो ने'त्येवानुमेयं, लक्ष्यामुरोधादिति भावः।

Satishji's सूत्र-सूचिः

TBD.