Table of Contents

<<6-3-116 —- 6-3-118>>

6-3-117 वनगिर्योः सज्ञायां कोटरकिंशुलुकादीनाम्

प्रथमावृत्तिः

TBD.

काशिका

वन गिरि इत्येतयोरुत्तरपदयोर् यथासङ्ख्यं कोटरदीनाम् किंशुलुकादीनां च दीर्घो भवति सज्ञायां विषये। वने कोटरादीनाम् कोटरवणम्। मिश्रकावणम्। सिघ्रकावणम्। सारिकावणम्। गिरौ किंशुलुकादीनाम् किंशुलुकागिरिः। अञ्जनागिरिः। कोटरकिंशुलुकादीनाम् इति किम्? असिपत्रवनम्। कृष्णगिरिः। कोटर। मिश्रक। पुरक। सिघ्रक। सारिक। कोटरादिः। किंशुलुक। शाल्वक। अञ्जन। भञ्जन। लोहित। कुक्कुट्। किंशुलुकादिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1023 वनगिर्योः। वनगिर्योरिति सप्तमी। कोटरश्च किंशुलुकश्च कोटरकिशुलुकौ, तावादी येषामिति विग्रहः। कोटरादीनांकिंशुलुकादीनां चेति लभ्यते। यथासङ्ख्यमन्वयः। तदाह– कोटरादीनामित्यादिना। `पुरगावण'मित्युदाहरणानि वक्ष्यन्ते।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.