Table of Contents

<<6-3-100 —- 6-3-102>>

6-3-101 कोः कत् तत्पुरुषे ऽचि

प्रथमावृत्तिः

TBD.

काशिका

कु इत्येतस्य क्त इत्ययम् आदेशो भवति तत्पुरुषे समासे अजादावुत्तरपदे। कदजः। कदश्वः। कदुष्ट्रः। कदन्नम्। तत्पुरुषे इति किम्? कूष्ट्रो राजा। अचि इति किम्? कुब्राह्मणः। कुपुरुषः। कद्भावे त्रावुपसङ्ख्यानम्। कुत्सितास्त्रयः कत्त्रयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1012 कोः कत्तत्पुरुषेऽचि। `क'दिति च्छेदः। शेषपूरणेन सूत्रं व्याचष्टे– अजादावुत्तरपदे इति। कद\उfffदाः कदन्नमिति। `कुगती'ति समासः। कूष्ट्रो राजेति। कुत्सित उष्ट्रो यस्येति बहुव्रीहित्वान्न कदादेशः। परे कदादेशो वक्तव्य इत्यर्थः। उत्तरपदस्याऽजादित्वाऽभावाद्वचनम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.