Table of Contents

<<6-2-68 —- 6-2-70>>

6-2-69 गोत्रान्तेवासिमानवब्राह्मणेसु क्षेपे

प्रथमावृत्तिः

TBD.

काशिका

गोत्रवाचिनि अन्तेवासिवाचिनि च उत्तरपदे मानवब्राह्मनयोश्च क्षेपवाचिनि समासे पूर्वपदम् आद्युदात्तं भवति। जङ्घावात्स्यः। यो जङ्घादानं ददान्यहम् इति वात्स्यः सम्पद्यते स जङ्घावात्स्यः इति क्षिप्यते। भार्यासौश्रुतः। सुश्रुतापत्यस्य बार्याप्रधानतया क्षेपः। वाशाब्राह्मकृतेयः। ब्रह्मकृतशदः शुभ्रादिसु पठ्यते। गोत्र। अन्तेवासि कुमारीदाक्षाः। कम्बलचारायणीयाः। घृतरौढीयाः। ओदनपाणिनीयाः। कुमार्यादिलाभकामा ये दाक्षादिभिः प्रोक्तानि शास्त्राण्यधीयते तच्छिष्यतां वा प्रतिपद्यन्ते त एवं क्षिप्यन्ते। अन्तेवासि। माणव भिक्षामाणवः। भिक्षां लप्स्ये ऽहमिति माणवो भवति। माणव। ब्राह्मण दासीब्राह्मणः। वृषलीब्राह्मणः। भयब्राह्मणः। यो भयेन ब्राह्मणः सम्पद्यते। अत्र यस्य अन्यत् समासलक्षणं न अस्ति, सुप्सुपा इत्येव तत्र समासः कर्तव्यः। गोत्रादिषु इति किम्? दासीश्रोत्रियः। क्षेपे इति किम्? महाब्राह्मणः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.