Table of Contents

<<6-2-161 —- 6-2-163>>

6-2-162 बहुव्रीहाविदमेतत्तद्भ्यः प्रथमपूरनयोः क्रियागणने

प्रथमावृत्तिः

TBD.

काशिका

बहुव्रीहौ समासे इदम् एतद् तदित्येतेभ्यः उत्तरस्य प्रथमशब्दस्य पूरणप्रत्ययान्तस्य च क्रियागणने वर्तमानस्य अनतः उदात्तः भवति। इदं प्रथमं गमनं भोजनं वा यस्य स इदंप्रथमः। इदंद्वितीयः। इदंतृतीयः। एतत्प्रथमः। एतद्द्वितीयः। एतत्तृतीयः। तत्प्रथमः। तद्द्वितीयः। तत्तृतीयः। बहुव्रीहौ इति किम्। अनेन प्रथमः इदंप्रथमः। तृतीया इति योगविभागात् समासः। इदमेतत्तद्भ्यः इति किम्? यत्प्रथमः। प्रथमपूरणयोः इति किम्? तानि बहून्यस्य तद्बहुः। क्रियागणने इति किम्? अयं प्रथम एषां ते इदंप्रथमाः। द्रव्यगणनम् एतत्। गणने इति किम्? अयं प्रथम एषाम् ते इदंप्रथमाः। इदम्प्रधाना इत्यर्थः। उत्तरपदस्य कार्यित्वात् कपि पूर्वम् अन्तोदात्तं भवति। इदम्प्रथमकाः। बहुव्रीहौ इत्येतत् वनं समासे 6-2-178 इति प्रागेतस्मादधिकृतम् वेदितव्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.