Table of Contents

<<6-2-159 —- 6-2-161>>

6-2-160 कृत्यौकैष्णुच्चार्वादयश् च

प्रथमावृत्तिः

TBD.

काशिका

कृत्य उक इष्णुचित्येवम् अन्ताश्चार्वादयश्च नञः उत्तरे ऽन्तोदात्ताः भवन्ति। कृत्य अकर्तव्यम्। अकरणीयम्। उक अनागामुकम्। अनपलाषुकम्। इष्णुच् अनलङ्करिष्णुः। अनिराकरिष्णुः। इष्णुज् ग्रहणे कर्तरि भुवः खिष्णुच् 3-2-57 इत्यस्य द्व्यनुबन्धकस्य अपि ग्रहणम् इकारादेर् विधानसामर्थ्याद् भवति। अनाढ्यम्भविष्णुः। असुभगम्भविष्णुः। चार्वादयः अचारुः। असाधुः। अयौधिकः। अवदान्यः। चारु। साधु। यौधिक। अनङ्गमेजय। अत्र द्वितीये नञ्समासे ऽन्तोदात्तत्वम्। अननङ्गमेजयः। वदान्य। अकस्मात्। अत्र अपि द्वितीये नञ्समासे ऽन्तोदात्तत्वम्। अनकस्मात्। अवर्तमानवर्धमानत्वरमाणध्रियमाण. रोचमानशोभमानाः संज्ञायाम्। एते वर्तमानादयः संज्ञायां द्रष्दव्याः। विकारसदृशे व्यस्तसमस्ते। अविकारः। असदृशः। अविकारसदृशः। गृहपति। गृहपतिक। राजाह्नोश् छन्दसि। अराजा। अनहः। भाषायां नञ्स्वर एव भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.