TBD.
स्वाङ्गे यौ नाडीतन्त्रीशब्दौ तदन्ताद् बहुव्रीहेः कप् प्रत्ययो न भवति। बह्व्यः नाड्यः अस्य बहुनाडिः कायः। बहुतन्त्री ग्रीवा। धमनीवचनस् तन्त्रीशबः। स्वाङ्गे इति किम्? बहुनाडीकः स्तम्भः। बहुतन्त्रीका वीणा।
TBD.
–
887 नाडीतन्त्र्योः स्वाङ्गे। बहुनाडिः काय इति। प्राणिस्थत्वात्स्वाङ्गत्वसूचनाय `काय इति विशेष्यम्। उपसर्जह्यस्वः। `नद्यृतश्चे'ति प्राप्तः कब्न भवति। बहुतन्त्रीग्र्रीवेति। बह्व्यस्तन्त्र्यो यस्या इति विग्रहः। वीणातन्तुषु तन्त्रीशब्दस्य प्रसिद्धत्वादाह–तन्त्रीर्धमनीति। बहुतन्त्रीशब्दे `गोस्त्रियो'रिति ह्यस्वमाशङ्क्याह–स्त्रीप्रत्ययान्तत्वाऽभावादिति। `अवितृ?स्तृ?तन्त्रीभ्य ईः' इत्यौणादिकस्य `स्त्रिया'मित्यधिकारेऽविहितत्वादिति भावः।
766 बहुनाडिरिति। उपसर्जनह्यस्वः। स्त्रीप्रत्ययान्तत्वाभावादिति। `अवितृ?स्तृ?तन्त्रिभ्यः'इतीप्रत्ययस्य `स्त्रिया'मित्यधिकारेऽविहितत्वादिति भावः।
TBD.