Table of Contents

<<5-4-125 —- 5-4-127>>

5-4-126 दक्षिणेर् मा लुब्धयोगे

प्रथमावृत्तिः

TBD.

काशिका

दक्षिणेर्मा इति कृतस्मासान्तः निपात्यते बहुव्रीहौ समासे लुब्धयोगे। दक्षिणम् ईर्मम् अस्य दक्षिणेर्मा मृगः। ईर्मम् व्रणम् उच्यते। दक्षिणम् अङ्गं व्रणितम् अस्य व्याधेन इत्यर्थः। लुब्धयोगे इति किम्? दक्षिणेर्म शकटम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

856 दक्षिणेर्मा। लुब्धो-व्याधः, तद्योगे `दक्षिणेरमा' इत्यनिच्प्रत्ययः, बहुव्रीहिश्च निपात्यते। दक्षिणे ईर्मं यस्येति विग्रहः। ईर्ममित्यस्य व्याख्यानं `व्रण'मिति व्यधिकरणत्वेऽपि बहुव्रीहिर्निपातनात्। अनिचि `यस्येति चे'त्यकारलोपे `दक्षिणेर्मे'ति रूपम्। लुब्धशब्दं विवृण्वन्नाह-व्याधेनेति। रोगादिना व्रणे तु दक्षिणेर्म इत्येवेति भावः।

तत्त्वबोधिनी

747 दक्षिणर्मा। लुब्धो–व्याधः। तद्योगादेवेर्मनिष्पात्ताविगं निपातनं नान्यदेत्यर्थस्तदेतदाह—व्याधेनेति। `वाली हेमाब्दमाली गुणनिधिरिषुणा निर्मितो दक्षिणेर्मा'इति प्रयोगस्त्वौपचारिक इति कथंचिन्नेयः।

Satishji's सूत्र-सूचिः

TBD.