Table of Contents

<<5-4-123 —- 5-4-125>>

5-4-124 धर्मादनिच् केवलात्

प्रथमावृत्तिः

TBD.

काशिका

केवलाद् यो धर्मशब्दः तदन्ताद् बहुव्रीहेः अनिच् प्रत्ययो भवति समासन्तः। कल्याणो धर्मो ऽस्य कल्याणधर्मा। प्रियधर्मा। केवलातिति इम्? परमः स्वो धर्मः अस्य परमस्वधर्मः। यद्येवं त्रिपदे बहुव्रीहौ प्राप्नोति, परमः स्वो धर्मः अस्य इति? एवं तर्हि केवलातिति पूर्वपदं निर्दिश्यते, केवलात् पदाद् यो धर्मशब्दो न पदसमुदायात्, तदन्ताद् भौव्रीहेः प्रत्ययः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

854 धर्मादनिच्केवलात्। `पूर्वपदा'दित्यध्याह्मत्य `केवला'दित्यस्य तद्विशेषणत्वमाह–केवलात्पूर्वपदादिति। अनिचि चकार इत्। इकार उच्चारणार्थः। मद्यमपदत्वानाक्रान्तत्वं केवलपूर्वपदत्वम्। कल्याणधर्मेति। कल्याणो धर्मो यस्येति विग्रहः। अनिचि `यस्येति चे'त्यकारलोपः। परम इति। परमः स्वो धर्मो यस्येति बहुव्रीहौ परमस्वधर्मशब्दे स्वशब्दस्य धर्मशब्दापेक्षया पूर्वपदत्वात्ततः परमस्वधर्मशब्दादप्यचः प्राप्तौ तन्निवृत्त्यर्थं केवलग्रहणमिति भावः। केवलग्रहणे कृते तु न दोष इत्याह–स्वशब्दो हीह न केवलं पूर्वपदमिति। किं त्विति। किं तु स्वशब्दो धर्मपदापेक्षया पूर्वत्वात्पूर्वपदं, न तु केवलं, मध्यमत्वात्। केवलशब्देन च पदान्तरराहित्य वाचिना मध्यमपद्तावनाक्रान्तत्वलाभादित्यर्थः। इदंच `इजादे'रिति सूत्रभाष्ये स्पष्टम्।एवं च त्रिपदबहुव्रीहौ परमस्वधर्म इत्येव भवति। नत्वनिच्। `सर्वनामसङ्ख्ययोरुपङ्ख्यान'मिति स्वशब्दस्य पूर्वनिपातस्तु `वाहिताग्न्यादिषु' इति पाक्षिकत्वान्न भवति। नन्वेवं सति सन्दिग्धः साध्यो धर्मो यस्य स `सन्दिग्धसाध्यधर्मे'त्यत्र कथमनिच्। अत्र हि सन्दिग्धेति केवलं पूर्वपदं, धर्मशब्दस्तस्म#आत्परो न भवति। यस्मात्साध्यशब्दात्परो धर्मशब्दः, तस्य तु न पूर्वपदत्वं, मध्यमपदत्वादित्यत आह–सन्दिग्धेति। सन्दिग्धश्चासौ साध्यश्चेति कर्मधारयः। सन्दिग्धसाध्यो धर्मो यस्येति कर्मधारयगर्भो बहुव्रीहिः। एवञ्च सन्दिग्धसाध्यशब्दस्य केवलपूर्वपदत्वात्तत्राऽनिच्निर्बाध #इति भावः। एवं चेति। उक्तरीत्या परमश्चासौ स्वश्च परमस्वः, परमस्वो धर्मो यस्येति कर्मधारयाश्रयणे तु केवलपूर्वपदत्वादनिच्। परमस्वधर्मेत्यपि साद्वेवेत्यर्थः। निवृत्तीति। निवृत्तिः धर्मो यस्येति कर्मधारयाश्रयणे तु केवलपूर्वपदत्वादनिच्। परमस्वधर्मेत्यपि साध्वेवेत्यर्थः। निवृत्तीति। निवृत्तिः धर्मो यस्येति, अनुच्छित्तिः धर्मो यस्येति च विग्रहः। अत्र समासे निवृत्तिशब्दस्य अनुच्छित्तिशब्दस्य च केवलपूर्वपदत्वाद्यथायोग्यमनिजिति भावः।

तत्त्वबोधिनी

746 धर्मादनिच्। अनिचोऽकारश्चिन्त्यप्रयोजन इत्येके। अन्ये तु धर्मं करोत्याचष्टे वा, `तत्करोती'ति ण्यन्तात्क्विपि धर्म्, परमो धर्म् यस्य सः परमधर्म्। एकदेशविकृतस्यानन्यत्वाद्धर्मशब्दोऽयमित्यकारोच्चारणमिह सप्रयोजनमेवेत्याहुः। बहुव्राहिणात्र पूर्वपदमाक्षिप्यत इत्यनुपदमेव वक्ष्यति। तच्च `केवला'दित्यनेन विशेष्यत इत्याह—केवलात्पूर्वपदादिति। प्राचा तूत्तरपदमपि विशेषितम्। प्रसादकृतापि केवलादिति धर्मशब्दस्य पूर्वपदस्य च विशेषणमिति व्याख्यातम्, तदुभयमपि चिन्त्यम्। आवृत्तौ मानाऽभावात्, धर्मपदविशेषणे प्रयोजनाऽभावाच्च। न च धर्मशब्दान्तं यत्रोत्तरपदं तव्द्यवृत्तिः फलमिति वाच्यं , तत्र बहुव्रीह्रवयवीभूतपूर्वपदात्परस्य धर्मपदेऽसम्भवादेवाऽदोषत्वात्। मध्यमत्वादिति। न च `सर्वनामसङ्ख्ययो'रिति स्वशब्दस्य पूर्वनिपातः शङ्क्यः, आहिताग्न्यादेराकृतिगणत्वादिति हरदत्तदिभिः समाहितत्वात्। आपेक्षिकमिति। नन्वत एव केवलग्रहणं व्यर्थं, पूर्वशब्दस्य समासप्रथमावयवे रूढत्वेनैव मध्यमपदव्यावृत्तिसम्भवादिति चेत्। अत्राहुः–पूर्वपदाक्षेपे तात्पर्यग्राहकत्वेन केवलपदस्य सार्थकत्वादिति। कर्मधारयपूर्वपद इति। नन्वत्राऽनिच् द#उर्लभः, `केवला'दित्यस्य समासानातच्मकत्वादित्यर्थादिति चेत्, मैवम्। केवलग्रहणस्य समासानात्मकपूर्वपदपरत्वे मानाऽभावात्। `निवृत्तिधर्मा हि स्थानी भवती'त्यादिप्रयोगविरोधाच्च। अस्मदुक्तार्थस्तु `धृञ् धारणे'इति धातौ माधवग्रन्थे स्पष्टः। एतेन साध्योः धर्मोऽस्येति साध्यधर्मा, संदिग्धश्चासौ साध्यधर्मा चेति विग्रहः। स च सन्देहः साध्यधर्मद्वारक एव पर्यवस्यतीति केषाञ्चिव्द्याख्यानं परास्तम्। उक्तिरीत्यैव साध्यस्य साक्षात्सन्दिग्धत्वलाभे तत्समर्थनप्रयासस्य व्यर्थत्वात्। साध्वेवेति। परमश्चासौ स्वश्च परमस्वः, स धर्मो यस्येति यदा विगृह्रते तदेत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.