TBD.
द्वित्रिभ्यां परो यो ऽञ्जलिशब्दः तदन्तात् तत्पुरुषात् टच् प्रत्ययो भवति। द्वावञ्जली समाहृतौ द्व्यञ्जलम्। त्र्यञ्जलम्। द्विगोः इत्येव, द्व्योरञ्जलिः द्व्यञ्जलिः। अतद्धितलुकि इत्येव, द्वाभ्याम् अञ्जलिभ्यां क्रीतः द्व्यञ्जलिः। त्र्यञ्जलिः। प्राचाम् इत्येव, द्व्यञ्जलिप्रियः।
TBD.
–
794 द्वित्रिभ्यामञ्जलेः। शेषपूरणेन सूत्रं व्याचष्टे–टज्वा स्यादिति। द्विगाविति। द्व्यञ्जलमिति। द्वयोरञ्जल्योः समाहार इति विग्रहे द्विगुः, टच् `यस्येति च', `स नपुंसकम्'। द्व्यञ्जलीति। समाहारे द्विगुः। टजभावे सति नपुंसकह्यस्वत्वम्। अतद्धितलुकीत्येवेति। अनुवर्तत एवेत्यर्थः। अञ्जलिभ्यां क्रीत इति। अञ्जलिशब्दोऽञ्जलिपरिमितधान्यादौ वर्तते, केवलस्थाऽञ्जलेर्मूल्यत्वाऽडसम्भवात्। परिमाणत्वाट्ठञ्। `अध्यर्धे'ति तस्य लुक्।
699 व्द्यञ्जलमिति। समाहारे द्विगुः। अतद्धितलुकीत्येवेति। एतच्च पूर्वसूत्रेऽपि बोध्यम्। अञ्जलिभ्यां क्रीत इति। नात्राऽञ्जलिः पाणिद्वयं, तस्य मूल्यत्वाऽसंभवात्, किन्तु अञ्जलिपरिमितो व्रीह्रादिर्विवक्षितः। ततश्टच परिमाणत्वादूव्द्यञ्जलिरित्यत्र ठञ्। तस्य तु `अध्यर्धपूर्वे 'ति लुक्।\त्
TBD.