Table of Contents

<<5-3-93 —- 5-3-95>>

5-3-94 एकाच् च प्राचाम्

प्रथमावृत्तिः

TBD.

काशिका

एकशब्दात् प्राचाम् आचार्याणां मतेन डतरच् डतमचित्येतौ प्रत्ययौ भवतः स्वस्मिन् विष्यए। चकारो डतरचो ऽनुकर्सणार्थः। द्वयोर् निर्धारने डतरच्, बहूनां निर्धारने डतमच्। जातिपरिप्रश्ने इति न अनुवर्तते। सामान्येन विधानम्। एकतरो भवतोर् देवदत्तः। एकतमो भवतां देवदत्तः। प्राचांग्रहणं पूजार्थं, विकल्पो ऽनुवर्तते एव।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

एकाच्च प्राचाम्। शेषपूरणेन सूत्रं व्याचष्टे–डतरच्–डतमच्च स्यादिति। `पूर्वसूत्रद्वयविषये' इति शेषः। `महाविभाषयैव सिद्धे प्राचाङ्ग्रहणं न कर्तव्य'मिति भाष्यम्। अत एव नाऽकजर्थं तत्।

तत्त्वबोधिनी

1528 एकाच्च। प्राचांग्रहणं पूजार्थम्। विकल्पोऽनुवर्तत एव।

Satishji's सूत्र-सूचिः

TBD.