Table of Contents

<<5-2-31 —- 5-2-33>>

5-2-32 नेर्बिडज्बिरीसचौ

प्रथमावृत्तिः

TBD.

काशिका

नते नासिकायाः इत्यनुवर्तते, संज्ञायाम् इति च। निशब्दान् नासिकाया नते ऽभिधेये बिडच् बिरीसचित्येतौ प्रत्ययौ भवतः। निबिडम्, निबिरीसम्। तद्योगात् नासिका ऽपि। पुरुषो ऽपि, निबिडः, निबिरीसः। कथं निबिडाः केशाः, निबिडं वस्त्रम्? उपमानाद् भविष्यति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1810 नेर्बिडज्विरीसचौ। `नते नासिकायाः संज्ञाया'मित्यनुवर्तते। नेः-नासिकाया नतेऽर्थे बिडच्, विरीसच् द्वौ प्रत्ययौ स्त इत्यर्थः। `निबिडा वृक्षा' इति तु उपमानादित्याहुः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.