Table of Contents

<<4-4-85 —- 4-4-87>>

4-4-86 वशं गतः

प्रथमावृत्तिः

TBD.

काशिका

वशशब्दात् तदिति द्वितीयासमर्थाद् गतः इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। वशं गतः वश्यः। कामप्राप्तो विधेयः इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1618 वशंगतः। वशशब्दाद्द्वितीयान्ताद्गत इत्यर्थे यदित्यर्थः। वश्य इति। वशं गत इति विग्रहः। `वश कान्तौ'। कान्तिरिच्छा। वशनं वशः। `वशिरण्योरुपसङ्ख्यान'मित्यप्। वशम्=इच्छां, गतः=प्राप्तः। इच्छाधीन इत्यर्थः। वशाधातुश्छान्दस इति लुग्विकरणे वक्ष्यते, तत्प्रायिकमिति भावः। सर्वस्यापि स्वेच्छानुसारित्वादाह– परेच्छानुसारीति।

तत्त्वबोधिनी

1246 वशं गतः। वशनं वशः—इच्छा। `वशिरण्योरुरसङ्ख्यान'मित्यप्।

Satishji's सूत्र-सूचिः

TBD.