Table of Contents

<<4-4-68 —- 4-4-70>>

4-4-69 तत्र नियुक्तः

प्रथमावृत्तिः

TBD.

काशिका

तत्र इति सप्तमीसमर्थान् नियुक्त इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। नियुक्तः आधिकृतो व्यापारितः इत्यर्थः। शुल्कशालायां नियुक्तः शौल्कशालिकः। आकरिकः। आपणिकः। गौल्मिकः। दौवारिकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1600 तत्र नियुक्तः। अस्मिन्नर्थे सप्तम्यन्ताट्ठक् स्यादित्यर्थः। नियुक्तः=अधिकृतः। संरक्षणादौ प्रेरित इति यावत्। आकरिक इति। आकरो रत्नाद्युद्भवस्थानम्।

तत्त्वबोधिनी

1231 आकरिक इति। `खनिः स्त्रियामाकरः स्या'दित्यमरः।

Satishji's सूत्र-सूचिः

TBD.