Table of Contents

<<4-4-68 —- 4-4-70>>

4-4-69 तत्र नियुक्तः

प्रथमावृत्तिः

TBD.

काशिका

तत्र इति सप्तमीसमर्थान् नियुक्त इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। नियुक्तः आधिकृतो व्यापारितः इत्यर्थः। शुल्कशालायां नियुक्तः शौल्कशालिकः। आकरिकः। आपणिकः। गौल्मिकः। दौवारिकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1600 तत्र नियुक्तः। अस्मिन्नर्थे सप्तम्यन्ताट्ठक् स्यादित्यर्थः। नियुक्तः=अधिकृतः। संरक्षणादौ प्रेरित इति यावत्। आकरिक इति। आकरो रत्नाद्युद्भवस्थानम्।

तत्त्वबोधिनी

1231 आकरिक इति। `खनिः स्त्रियामाकरः स्या'दित्यमरः।

Satishji's सूत्र-सूचिः

TBD.