TBD.
ऋगयनाऽदिभ्यः प्रातिपदिकेभ्यो भवव्याख्यानयोरर्थयोः अण् प्रत्ययो भवति। ठञादेरपवादः। आर्गयनः। पादव्याख्यानः। अण्ग्रहणं बाधकबाधनार्थम्। वास्तुविद्यः। ऋगयन। पदव्याख्यान। छन्दोमान। छग्दोभाषा। छन्दोविचिति। न्याय। पुनरुक्त। व्याकरण। निगम। वास्तुविद्या। अङ्गविद्या। क्षत्रविद्या। उत्पात। उत्पाद। संवत्सर। मुहूर्त। निमित्त। उपनिषत्। शिक्षा। ऋगयनादिः।
TBD.
–
1431 अणृगयनादिभ्यः। `तस्य व्याख्याने तत्र भवे चे'ति शेषः। आर्गयनैति। ऋगयनम्– ऋक्संहिता, तस्य व्याख्यानस्तत्र भवो वेत्यर्थः। `बह्वचोऽन्तोदात्ता'दिति ठञि प्राप्ते अण्। औपनिषद इति। उपनिषदो व्याख्यानस्तत्र भवो वेत्यर्थः। एवं वैयाकरणः। `न य्वाभ्या'मित्यैच्। अण्ग्रहणं तु छबाधनार्थम्, अन्यथा अणा मुक्ते छो दुर्वारः स्यादित्याहुः।
1121 अणृगय। ऋगयनादिभ्योभवव्याख्यानयोरर्थयोरण्स्यात्। ठञादेरिति। आदिशब्दाट्ठक्छयोः। आर्गयन इति। `अयन'शब्दो भावसाधनः, तेन समासे `अनो भावकर्मवचनः'इत्यन्तोदात्तः। अभेदोपचाराद्भाववचनोऽपि ग्रन्थे वर्तते। इह `बह्वचोऽन्तोदात्ता'दिति ठञ्प्राप्तः। औपनिषद इत्यत्राप्येवम्। विद्यान्यायशिक्षाशब्देभ्यो `व्द्यजृद्ब्राआहृणे'ति ठक्प्राप्तः। व्याकरणशब्दात्तु—`वृद्धाच्छः'।
TBD.