Table of Contents

<<4-2-80 —- 4-2-82>>

4-2-81 जनपदे लुप्

प्रथमावृत्तिः

TBD.

काशिका

देशे तन्नाम्नि यश्चातुरर्थिकः प्रत्ययः भवति, तस्य देशविशेषे अनपदे ऽभिधेये लुब् भवति। ग्रामसमुदायो जनपदः। पञ्चालानां निवासो जनपदः पञ्चालाः। कुरवः। मत्स्याः। अङ्गाः। बङ्ङाः। मगधाः। सुह्माः। पुण्ड्राः। इह कस्मान् न भवति, उदुम्बराः अस्मिन् सन्ति औदुम्बरो जनपदः, वैदिशो जनपदः इति? तन्नाम्नि इति वर्तते। न च अत्र लुबन्तं तन्नामधेयं भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1274 जनपदे लुप्। चातुरर्थिकस्येति। प्रकरणलभ्यमिदम्।

तत्त्वबोधिनी

1030 जनपदे लुप्। तन्नाम्नीत्येव। नेह–उदुम्बराः सन्त्यास्मिन्नौदुम्बरो जनपदः। न ह्रत्र लुबन्तं नामधेयम्। जनपदस्यैकत्वादेकवचने प्राप्ते बहुवचनादिफलकमतिदेशमाह– ।

Satishji's सूत्र-सूचिः

TBD.