TBD.
सा इति समर्थविभक्तिः। अस्याम् इति प्रत्ययार्थः स्त्रीलिङ्गः। क्रिया इति प्रकृत्यर्थविशेषणम्। घञः इति प्रकृतिनिर्देशः। इति करणो विवक्षार्थः। घञन्तात् कियावाचिनः प्रथमासमर्थादस्याम् इति सप्तम्यर्थे स्त्रीलिङ्गे ञः प्रययो भवति। घञः इति कृद्ग्रहणम्, तत्र गतिकारकपूर्वम् अपि गृह्यते। श्येनपातो ऽस्यां वर्तते श्यैनंपाता। तैलंपाता घञः इति किम्? श्येनपतनम् अस्यां वर्तते। क्रिया इति किम्? प्राकारो ऽस्यां वर्तते। अथ समर्थविभक्तिः प्रत्ययार्थश्च कस्मात् पुनरुपादियते, यावता द्वयम् अपि प्रकृतम् एव? क्रीडायाम् इत्यनेन तत्सम्बद्धम्, अतस्तदनुवृत्तौ क्रीडानुवृत्तिरपि सम्भाव्येत। सामान्येन च इदं विधानम्। दण्डपातो ऽस्यां तिथौ वर्तते दाण्डपाता तिथिः। मौसलपाता तिथिः।
TBD.
–
1248 घञः सास्याम्। अस्यामित्यनन्तरं `मृगयाया'मित्यादि स्त्रीलिङ्गं विशेष्यमध्याहार्यम्। सा क्रिया अस्यां मृगयादिक्रियायामित्यर्थे घञन्तप्रकृतिकप्रथमान्तात्क्रियावाचिनो ञः स्यादित्यर्थः। फलितमाह– घञन्तादित्यादिना। कृद्ग्रहणादिति। तत्प्रयोजनमनुपदमेव वक्ष्यते।
1014 घञः। कृद्ग्रहणादिति। तेन `श्यैनंपाते'त्यत्र `ञ्णिती'त्यङ्गस्य विधीयमाना वृद्धिः सिद्धा। श्येनपातस्यापि घञन्तत्वादिति भावः। घञः किम्?। श्येनपतनमस्यां वर्तते। क्रिया किम्?। प्राकारोऽस्यां वर्तते। `तदस्या'मिति प्रकृते पुनः `सास्या'मित्युक्तिः `क्रीडायां'मित्यस्य निवृत्तिर्यथा स्यादिति। अतएवाह–।
TBD.