Table of Contents

<<4-1-49 —- 4-1-51>>

4-1-50 क्रीतात् करणपूर्वात्

प्रथमावृत्तिः

TBD.

काशिका

करणं पूर्वम् अस्मिन्निति करणपूर्वं प्रतिपदिकम्। क्रीतशब्दान्तात् प्रातिपदिकात् करणपूर्वात् स्त्रियां ङीप् प्रत्ययो भवति। वस्त्रेण क्रियते सा वस्त्रक्रीती। वसनक्रीती। करणपूर्वातिति किम्? सुक्रीता। दुष्क्रीता। इह कस्मान् न भवति, सा ही तस्य धनक्रीती प्राणेभ्यो ऽपि गरीयसी इति? टाबन्तेन समसः। अतः इति चातुवर्तते। गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः इति बहुलं तदुच्यते, कर्तृकरणे कृता बहुलम् 2-1-32 इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1267 क्रीतान्ताददन्तात् करणादेः स्त्रियां ङीष्स्यात्. वस्त्रक्रीती. क्वचिन्न. धनक्रीता..

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.