Table of Contents

<<4-1-120 —- 4-1-122>>

4-1-121 द्व्यचः

प्रथमावृत्तिः

TBD.

काशिका

स्त्रीभ्यः इत्येव। द्व्यचः स्त्रीप्रत्ययान्तादपत्ये ढक् प्रत्ययो भवति। तन्नामिकाणो ऽपवादः। दत्ताया अपत्यं दात्तेयः। गौपेयः। द्व्यचः इति किम्? यामुनः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1108 द्व्यचः। ननु `स्त्रीभ्यो ढ'गित्येव सिद्धे किमर्थमिदमित्यत आह–तन्नामिकेति। दात्तेय इति। दत्ता नाम काचिन्मानुषी, तस्या अपत्यमिति विग्रहः। ननु पृथाया अपत्यं पार्थ इति कथम्, तन्नामिकाऽणं बाधित्वा `द्व्यचः' इति ढक्प्रसङ्गादित्यत आह–पार्थ इत्यत्रेति। शिवादित्वादपत्य एवाऽणित्यन्ये।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.