Table of Contents

<<4-1-107 —- 4-1-109>>

4-1-108 वतण्डाच् च

प्रथमावृत्तिः

TBD.

काशिका

आङ्गिरसे इत्येव। वतण्डशब्दादाङ्गिरसे ऽपत्यविशेषे गोत्रे यञ् प्रत्ययो भवति। वातण्ड्यः। आङ्गिरसे इति किम्? वातण्डः। किम् अर्थम् इदं यावता गर्गादिष्वयं पठ्यते? शिवादिषु अपि अयं पठ्यते। तत्र आङ्गिरसे शिवाद्यणो ऽपवादार्थं पुनर् वचनम्। अनाङ्गिरसे तु उभयत्र पाठसामर्थ्यात् प्रत्ययद्वयम् अपि भवति। वातण्ड्यः, वातण्डः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1095 वतण्डाच्च। वतण्डस्य गर्गादौ शिवादौ च पाठाद्यञणोः प्राप्तयोराङ्गिरसे यञेवेति नियमार्थमिदम्।

तत्त्वबोधिनी

916 वतण्डाच्च। यञणोः प्राप्तयोराङ्गिरस यञेवेति नियमार्थं सूत्रम्।

Satishji's सूत्र-सूचिः

TBD.