Table of Contents

<<3-4-73 —- 3-4-75>>

3-4-74 भीमाऽदयो ऽपादाने

प्रथमावृत्तिः

TBD.

काशिका

भीमादयः शब्दा अपादाने निपात्यन्ते। उणादिप्रत्ययान्ता एते, इषियुधीन्धिदसिश्याधूसूभ्यो मक्, भियष्षुक् ग्रस्वश्च इत्येवम् आदयः। ताभ्याम् अन्यत्रौणादयः 3-4-75 इति पर्यदासे प्राप्ते निपातनम् आरभ्यते। भीमः। भीष्मः। भयानकः। वरुः। भूमिः। रजः। संस्कारः। संक्रन्दनः। प्रपतनः। समुद्रः। स्रुचः। स्रुक्। खलतिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1507 भीमः। भीष्म इति। `भियो हेतुभये षु'गिति मप्रत्ययसंनियोगेन वैकल्पिकः षुक्। प्रस्कन्दत्स्मादिति प्रस्कन्दनः। अपादाने ल्युट्। प्ररक्षत्यस्मादिति प्ररक्षः। पचाद्यच्। मुह्रत्यस्मादिति मूर्खः। `मुहेः खो मूर्च'। स्खलत्यस्मादिति खलतिर्निष्केशशिरा इति प्रागुक्तम्। `ताभ्या'मित्यनुक्तौ तु सन्निहिताऽपादानस्यैव परामर्शादपादानादन्यत्रेत्यर्थः स्यादिति भावः। ततोऽसाविति। तनोतेः कर्तरि क्तः। `अनुदात्तोपदेशे'त्यनुनासकिलोपः। असौ ततो भवति = विस्तृतो भवतीत्यर्थे तनोतेस्तुन्। वृत्तमिति। गमनादिना निष्पन्नं यत्तद्वत्र्म। वृतेः कर्मणि मनिन्। `अयनं वत्र्ममार्गाऽध्वे'त्यमरः।

Satishji's सूत्र-सूचिः

TBD.