Table of Contents

<<3-4-61 —- 3-4-63>>

3-4-62 नाधाऽर्थप्रत्यये च्व्यर्थे

प्रथमावृत्तिः

TBD.

काशिका

नाऽर्थो धाऽर्थश्च प्रत्ययो यस्मात् स एवम् उच्यते। नाधार्थप्रत्यये शब्दे च्व्यर्थे उपपदे कृभ्वोः धात्वोः क्त्वाणमुलौ प्रत्ययु भवतः। अनाना नाना कृत्वा गतः नानाकृत्य गतः, नाना कृत्वा गतः, नानाकारं गतः। विनाकृत्य गतः, विना कृत्वा गतः, विनाकारं गतः। नानाभूय गतः, नाना भूत्वा गतः, नानाभावं गतः। विनाभूय गतः, विना भूत्वा गतः, द्विनाभावं गतः। द्विधाकृत्य गतः, द्विधा कृत्वा गतः, द्विधाकारं गतः। द्विधाभूय गतः, द्विधा भूत्वा गतः, द्विधाभावं गतः। द्वैधंकृत्य गतः, द्वैधं कृत्वा गतः, द्वैधंकारं गतः। द्वैधंभूय गतः, द्वैधं भूत्वा गतः, द्वैधंभावं गतः। प्रत्ययग्रहणं किम्? हिरुक् कृत्वा। पृथक् कृत्वा। च्व्यर्थे इति किम्? नाना कृत्वा काष्ठानि गतः। धार्थम् अर्थग्रहणम्, ना पुनरेक एव, विनञ्भ्यां नानाञौ इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1634 नार्धार्थ। नार्थौ `विनञ्भ्या'मिति विहितौ नानाञौ। धार्थाः– द्वित्र्योश्च धमुञादयः। `सङ्ख्याया विधार्थे धे'ति धाप्रत्ययो धाऽर्थको भवतीत्याशयेनोदाहरति– एकधाभूयेत्यादि। एवं द्वैधङ्कृत्य द्वैधम्भूय द्वैधम्भावमित्याद्युदाहर्तव्यम्। ननु नानाञौ प्रत्ययौ, धा च प्रत्ययः, धमुञादिविधौ तु `एकाद्धो ध्यमुञ्यन्यतरस्या'मित्यतो `ध' इत्यनुवर्त्त्यतेषामादेशत्वाऽश्रयणेऽपि स्थानिवद्भावेन धमुञादिर्धाप्रत्ययो भवतीति किमर्थं प्रत्ययग्रहणमित्यक्षिपति- - प्रत्ययग्रहणमिति। यद्यप्युक्तरीत्या धाग्रहणेन धमुञादेग्र्रहणं संभवतीत्यर्थग्रहणमिह व्यर्थं, तथापि `धमुञन्तात्सवार्थे डदर्शन'मिति डप्रत्ययान्तसङ्ग्रहार्थमर्थग्रहणं, तत्फलं। तु द्वैधीकृत्येत्यादिप्रयोगः।

Satishji's सूत्र-सूचिः

TBD.