Table of Contents

<<3-4-3 —- 3-4-5>>

3-4-4 यथाविध्यनुप्रयोगः पूर्वस्मिन्

प्रथमावृत्तिः

TBD.

काशिका

पूर्वस्मिन् लोड्विधाने यथाविध्यनुप्रयोगो भवति। यस्माद् धातोः लोड् विहितः स एव धातुरनुप्रयोक्तव्यः। धातुसम्भन्धे प्रत्ययविधानादनुप्रयोगः सिद्ध एव, यथाविध्यर्थं तु वचनम्। तथा च एव उदाहृतम् लुनीहि लुनीहि इत्येव अयं लुनीति इति। छिनत्ति इति न अनुप्रयुज्यते। अधीष्वाधीष्वेत्येव अयम् अधीते। पठति इति न अनुप्रयुज्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1438 पूर्वस्मन् = क्रियासमभिहारविषये। अत्र सङ्ख्याकारकादीनां हिस्वान्तादप्रतीतेस्तद्बोधनायानुप्रयोगो न्यायत एव प्राप्तस्तदनुवादेन `यथाविधी'ति नियम्यते। तथा च पक्षे प्राप्तस्य नियमनाद्याहियाहीति गच्छतीत्यादि न भवति। यद्यप्यन्यत्र `हन्हपूषाऽर्यम्णां शौ' इत्यादौ नियमशब्देन परिसङ्ख्या व्यवह्यियते, `सर्वनामस्थाने चे'त्यादिना शौ तद्भिन्ने च दीर्घप्राप्तेशेरन्यत्र तु तन्निवृत्तिपरत्वात्, तथापीहकदाचिद्यातीत्यस्य कदाचिद्गच्छतीत्यस्यानुप्रयोगे प्राप्ते यथाविधीत्ययमप्राप्ताशंपरिपूरणाय `व्रीहीनवहन्ती'त्यादिवद्विधीयत इति नियमविधिरेवाऽयम्। एतेन मीमांसकप्रिसद्धनियमविधिः शब्दशास्त्रे ऽप्रसिद्ध इति वदन्तः परास्ताः। वार्तिकमिदं द्विरुक्तप्रक्रियायां व्याख्यातम्। इतिशब्दस्त्विति। ननु इतिशब्देन व्यवधानाद्यातीत्यस्याऽनुप्रयोगत्वं कथमिति चेत्। अत्राहुः– - अनुशब्दस्येहानुवादित्वमात्रपरत्वाद्व्यहितविपरीतप्रयोगयोरिष्टापत्तिः। एतच्च भाष्यकारीयोदाहरणसूत्रप्रत्याख्यानाभ्यां निर्णीयते। न च `समुच्चये सामान्यवचनस्ये'ति विशेषस्योक्तत्वात्सूत्रैकदेशस्य पूर्वस्मिन्नितिपदस्य वैयथ्र्यमस्तु नाम, `यथाविध्यनुप्रयोग' इति तु यथाविधीति नियमार्थं स्वीकर्तव्यमेव। अन्यथा `याहि याहीति गच्छती'त्यादि स्यादिति वाच्यम्, यस्माल्लोड्विधिस्तत्प्रकृतिकतिङन्तस्यैवोपस्थितत्वेनाऽनुप्रयोक्तुमर्हत्वान्न तूपस्थितपरित्यागेन य\उfffद्त्कचिद्धातुप्रकृतितिङन्तस्याऽनुप्रोगार्हतेति। अतएव `स्वं रूपं शब्दस्ये'त्यपि सूत्रं प्रत्याख्यातं भाष्यकारेण। `अग्नेर्ढ'गित्यादौ विधिवाक्यगतस्याऽङ्गारवाचकाऽग्निशब्दादेरुपस्थितत्वात्तत्परित्यागेनाऽनुपस्थितवह्न्यादिशब्देभ्यो ढगादिर्न भवेदिति। एवं चाऽस्मिन्प्रत्याख्याते यथाविध्यनुप्रयोगसूत्रे मीमांसकप्रसिद्धनियमविधेः स्थितोदाहरणमन्यदन्वेषणीयमिति दिक्। एवमिति। याह#इयाहीति यातः, याहियाहीति यान्तीत्येवमूह्रमित्यर्थः। पक्षे इति। `वा च तध्वमो'रित्युक्तत्वाद्धिस्वाऽभावपक्ष इत्यर्थः। तध्वमोरित्यत्र तशब्देन मध्यमपुरुषबहुवचनं गृह्रते, `ध्वम्' साहचर्यात्। यद्यपि `ध्व'मित्यस्यात्मनेपदत्वमस्तीति तत्साहचर्येण प्रथमपुरुषैकवचनस्य ग्रहणं प्राप्नोति, तथापि बहुवचनत्वमध्यमत्वरूपधर्माभ्यां मध्यमपुरुषबहुवचनमेव गृह्रत इत्याशयेनोदाहरत–यातयातेति यूयमिति। अस्यापि लोटो लङ्?वत्त्वात् `तस्थस्थमिपा'मिति यातेत्यत्र थस्य तादेशः। विध्यादिलोड्विषये त्वनुप्रयोगेऽपि तु थस्य तादेशप्रवृत्तेर्यूयं यातेत्यनुप्रयोक्तम्। अधीध्वमधीद्वमिति। `सवाभ्या'मित्यम्। अधीध्वे इति। विध्यादिलोड्विषये तु सवाभ्यां वामाविति प्रवृत्तेरधीध्वमित्येवानुप्रयोक्तव्यम्। भावकर्मणोस्तु `भूयस्व–भूयस्वेति भूयते' `पच्यस्वपच्यस्वेति पच्यते' इत्याद्युन्नेयम्। `समुच्चयेऽन्यतरस्या'मिति सूत्रे क्रियासमभिहारैत्यननुवर्तनाद्द्वित्वमकृत्वैवोदाहरति—सक्तन् पिब धानाः खादेति। अब्यवहरथेति। विध्यादिलोड्विषये तु `अभ्यवहरते'त्यनुप्रोक्तव्यम्। एवमभ्यवहरध्वे इत्यत्राप्युक्तविषये अभ्यवहरध्वमित्यनुप्रयोक्तव्यम्। पक्षे हिस्वाव#इति। `पिब खादेत्यब्यवहरथ' `भुङ्क्ष्व आस्वादस्वेत्यभ्यवहरध्वे' इत्युदाहार्यम्। लवनादीति। आदिशब्देन– मोषणहरणे ग्राह्रे। अनुवृत्त्यभ्युपगमे बाधकमाह– लोडन्तस्योत। भ्रम एवेति। पुरुषांशे, वचनांशे च। लोडंशे तु प्रमैवेति भावः। एवमुक्तोदाहरणेषु हिस्वान्तेषु तिङन्तत्वं यथायथं परस्मैपदात्मनेपदान्तत्वं च सिद्धं। पुरुषवचनसंज्ञे तु विधानसामथ्र्याद्धिस्वयोर्न स्त इत्युक्तमिति सर्वेष्टसिद्धिः।\र्\निति श्रीपरमहंसपरिव्राजकाचार्यश्रीवामनेन्द्रस्वामिचरणारणारविन्दसेवकज्ञानेन्द्र सरस्वती कृतौ सिद्धान्तकौमुदी व्याख्यायां तत्त्वबोधिन्याख्यायां तिङन्तकाण्डं समाप्तम्।

Satishji's सूत्र-सूचिः

TBD.