TBD.
धातुसम्बधे इति वर्तते। पौनःपुन्यं भृशार्थो वा क्रियासमभिहारः। प्रकृत्यर्थविशेषणं च एतत्। समभिहारविशिष्टक्रियावचनाद् धातोः लोट् प्रत्ययो भवति सर्वेषु कालेषु। सर्वलकाराणाम् अपवादः तस्य च लोटो हि स्व इत्येतावादेशौ भवतः। तध्वंभाविनस्तु वा भवतः। योगविभागो ऽत्र कर्तव्यः। क्रियासमभिहारे लोड् भवति, ततो लोटो हिस्वौ। लोटित्येव, लोड्धर्माणौ हिस्वौ भवतः इत्यर्थः। तेन आत्मनेपदपरस्मैपदत्वं भेदेन अवतिष्ठते, तिङ्त्वं च द्वयोरपि भवति। लुनीहि लुनीहि इत्येव अयं लुनाति, इमौ लुनीतः, इमे लुनन्ति। लुनीहि लुनीहि इत्येव त्वं लुनासि, युवां लुनीथः, यूयं लुनीथ। अथ वा, लुनीत लुनीत इत्येव यूयं लुनीथ। लुनीहि लुनीहि इत्येव अहं लुनामि, आवां लुनीवः, वयं लुनीमः। भूते लुनीहि लुनीहि इत्येव अयम् अलावीत्, अलाविष्टाम्, अलाविषुः। एवं मध्यमौत्तमयोरुदाहार्यम्। भविष्यति लुनीहि लुनिहि इत्येव अयं लविष्यति, लविष्यतः, लविष्यन्ति। एवं मध्यमौत्तमयो रुदाहार्यम्। अधीष्वाधीष्वेत्येव अयम् अधीते, इमावधीयते, इमे ऽधीयते। अधीष्वाधीष्वेत्येव त्वम् अधीषे, युवाम् अधीयाथे, यूयम् अधीध्वे। अथ वा, अधीध्वम् अधीध्वम् इत्येव यूयम् अधीध्वे। अधीष्वाधीष्वेत्येव अहम् अधीये, आवाम् अधीवहे, वयम् अधीमहे। एवं सर्वेष्वेव लकारेषु उदाहार्यम्। क्रियासमभिहाराभिव्यक्तौ द्विर्वचनम् अयं लोडपेक्षते, क्रियासमभिहारे द्वे भवतः इति। यङ्प्रत्ययः पुनरस्मिन्नेव अर्थे विधीयमानः स्वयम् एव शक्तत्वान् न अपेक्षते द्विर्वचनम्।
TBD.
–
647 क्रियासमभि। अत्र चत्वारि वाक्यानि। तत्र `क्रियासमभिहारे लो'डिति प्रथमं वाक्यम्. पौनः पुन्यं भृशार्थश्च क्रियासमभिहार इत्युक्तम्। क्रियासमभिहारे इति धात्वर्थविशेषणम्। क्रियासमभिहारविसिष्टक्रियावृत्तेर्धातोरिति लभ्यते। लोट् तु द्योतकः। तदाह–पौनः पुन्ये भृशार्थे च द्योत्ये इति। क्रियासमभिहारविशिष्टक्रियावृत्तेर्धातोर्लोडिति यावत्। सर्वलकारापवादः। `लोटो हिस्वा'विति द्वितीयं वाक्यं व्याचष्टे– तस्येति। पूर्ववाक्यविहितस्य लोटो हिस्वावादेशौ स्त इत्यर्थः। तिङामपवाद इति। अपवादावित्यर्थः। प्रत्येकाभिप्रायमेकवचनम्। ननु हिस्वयोरुभयोरपि लादेशत्वात्परस्मैपदत्वं स्यात्। तथा सति हेः परस्मपैदत्वं, स्वादेशस्य त्वात्मनेपदत्वमितीष्टा व्यवस्था न सिध्येत्। अस्य स्वादेशस्य तङ्?प्रत्याहारप्रविष्टत्वाऽभावेन `तङानावात्मनेपदटमित्स्याऽप्रवृत्तेः। `तिप्रतस्झी'त्यादिसूत्रोपात्तेषु ताऽऽतामादिष्वेव तङ्संज्ञाप्रवृत्तेः। किंच अनयोर्हिस्वयोः `तिप्तस्झी'ति सूत्रानन्तर्भूतत्वात्तिङ्त्वं च दुर्लभमित्यत आह– तौ चेति। `लोटो हिस्वा'विति द्वितीयवक्ये तावत्क्रियासमभिहारे लोडिति प्रतमवाक्याल्लोडित्यनुवृत्तं स्थानषष्ठ\उfffदा विपरिणतं तृतीयं वाक्यं संपद्यते। तत्र हि `लोटो हिस्वौ' इति द्वितीयवाक्याद्धिस्वावित्यनुवृत्तं धर्मपरमाश्रीयते। तथा च लोडादेशौ हिस्ववद्भवत इत लभ्यते। कौ भवत इत्याकाङ्क्षायां पूर्ववाक्योपस्थितौ हिस्वाविति गम्यते। ततश्च याविमौ तिङनन्तर्भूतौ हिस्वावुक्तौ तौ प्रसिद्धलोडादेशतिङन्तर्बूतहिस्ववद्भवत इति तृतीयं वाक्यं पर्यवस्यति। तिङन्तर्भूतहिस्वयोस्तावत्क्रमात्परस्मैपदत्वमात्मनेपदत्वं तिङ्त्वं च प्रसिद्धम्। अतः प्रकृतौ हिस्वौ कर्मात्परस्मैपदात्मनेपदसंज्ञौ तिङ्?संज्ञौ चेत्यर्थः। तिङ्?त्वात्पदत्वसिद्धिः। ननु `वा च तध्वमो रिति तध्वमोर्हिस्वादेशविकल्पविदिरनुपपन्नः, लोडादेशभूतहिस्वयोस्तिङपवादतया लोटस्तध्वमोरप्रसक्तेरित्यत आह– तध्वमोर्विषयेत्विति। स्थानषष्ठीमाश्रित्य `लोडादेशतध्वमोः स्थाने हिस्वा'वित्यर्थ इति न भ्रमितव्यम्?, येनोक्तदोषः स्यात्, किंतुं विषयविषयिभावः षष्ठ\उfffद्र्थः। तथा च तध्वमोर्विषये लोटो हिस्वौ, पक्षे तध्वमाविति फलतीत्यर्थः।अत्र मध्यमपुरुषबहुवचनमेव तशब्दो गृह्रते, व्याख्यानात्, ध्वंसाहचर्याच्च। ननु हिस्वयोरनयोर्मध्यमपुरुषैकवचनत्वस्याप्यतिदेशाद्युष्मत्सामानाधिकरण्ये एकत्वे च सत्येव हिस्व#औ स्याताम्। तथा च `इणौ हिस्वौ सर्वेषां पुरुषाणां, सर्वेषां च वचनानामिष्येते' इति भाष्यमनुपपन्नमित्यत आह– हिस्वविधानेति। यदि हिस्वयोर्मध्यमपुरुषैकवचनसंज्ञे स्यातां तर्हि युष्मत्सामानाधिकरण्ये एकत्वे च सत्येवलोटो हिस्वौ स्याताम्, अन्यत्र तु यथायथं तिबाद्यादेशाः स्युः। तथा सति लोटो हिस्वविधानमनर्थकं स्यादतो न पुरुषवचनातिदेश इत्यर्थः। तेनेति। हिस्वयोः पुरुषवचनातिदेशाऽभावेन क्रमात् परस्मैपदात्मनेपदसंज्ञालाभेन चेत्यर्थः। सकलेति। सकलपुरुषवचनविषये हिर्भवति, स च भवन् परस्मैपदिभ्य एव कर्तर्येव भवति, न त्वात्मनेपदिभ्यो भावकर्मकर्तृष्वित्यर्थः, `शेषात्कर्तरि परस्मैपदमित्युक्तेरिति भावः। आत्मनेपदिभ्यः स्व इति। `अनुदात्तङित आत्मनेपदम्',`भावकर्मणो?रित्यादिसूत्रविषयेभ्यो धातुभ्यो भावकर्मकर्तुषु लोटः स्व एव भवतीत्यर्थः। अनयोरत्र क्रमात् परस्मैपदात्मनेपदसंज्ञाविध्यभावे तु लादेशत्वेन उभयोः परस्मैपदत्वात् कर्तर्येव परस्मैपदमात्मनेपदिभ्योऽपि स्यादिति भावः।
538 क्रियासमभिहारे। द्योत्य इति। क्रियासमभिहारो धातोरेवार्थः। लोट् तु द्योतक इति भावः। तस्यच हिस्वौ स्त इति। ननु `लो'डित्यनेन तिङो लक्षयित्वा तिङामेव हिस्वौ विधीयेताम्।था सति तिङन्तत्वात्पदत्वं लभ्यत इति गुणोऽप्यस्ति, `वा च तध्वमो'रिति वाक्यशेषोऽपि स्वरसतः सङ्गच्छते। अनय्था येन नाप्राप्तिन्यायेन हिस्वयोस्तिङतिङलक्षणा न न्याय्या, असंजातविरोधित्वेनोपक्रमस्य प्राबल्यात्, वि,यसप्तम्याश्रणेन वाक्यसेषस्योपपन्नत्वाच्च। किंच तिङामादेशत्वे तिप्सिप्मिपां स्थाने विहितस्यहेः स्थानिवद्भावेन पित्त्वान्ङित्त्वाऽभावेन `लुनीही'त्यत्र `ई हल्यघो'रितीत्वं न स्#आत्। `ब्राऊही'त्यत्र `ब्राऊव ई'डितीडागमे `ब्रावीही'ति स्यात्। `तृण्ढी'त्यत्र तु `तृणह इ'मितीमागमे तृणेढीति स्यात्। किंच लादेशानामेव परस्मैपदात्मनेपदसंज्ञे न तु लादेशतिङादेशानामिति सर्वेषां तिङां द्वावपि हिस्वौ पर्यायेण स्यातां न तु तिबादीनां हिः, तिङां स्व इति पदव्यवस्थया। ततश्च लकारस्यैवादेशौ हिस्वौ स्यातामत आह—तौ चेति। अयं भावः- `लोटो हिस्वौ' इति वाक्ये `क्रियासमभिहारे लो'डिति वाक्याल्लोडित्यनुवर्तते, तच्च हिस्वावित्यस्य विशेषणम्। न च हिस्वौ लोटौ भवत इतिसामथ्र्याल्लोटधर्मकावित्र्थः संपद्यते। तत्रापि मुख्यलोट्संबन्धिनो धर्मस्य प्रत्ययत्वस्यातिदेशोव्यर्थः, स्थानिवत्त्वेनैव तत्सिद्धेः। किंतु स्थानवद्भावलब्धलोड्व्यपदेशकौ तिङ्भूतौ यौ हिस्वौ तयोरेव धर्म इहातिदिश्यते। केचित्तु– `क्रियासमभिहारे लो' डित्यनन्तरं लाघवात्तस्य हिस्वाविति वक्तव्ये लोड्ग्रहणसामथ्र्याल्लोड्धर्मकावेव हिस्वौ लोटः स्थाने भवत इत्यर्थः संपद्यते। तथा च पूर्वोक्तरीत्या तिङ्भूतौ यौ हिस्वौ तयोरेव धर्म इहातिदिश्यत इति सिद्धमिष्टम्। एवं च `लोटो हिस्वा'विति वाक्ये पूर्ववाक्याल्लोड्ग्रहणं नानुवर्तनीयमित्याहुः। तिङ्संज्ञौ चेति। तेन पदत्वं, `तिङ्ङतिङः' इति च भवति। हिस्वविधान इति। यदि हि पुरुषवचनसंज्ञे अपि स्यातां तर्हि युष्मत्सामानाधिकरणये एकत्वे च सत्येव हिस्वाभ्यां भाव्यं, तत्रच व्यर्थो हिस्वविधिरिति भावः। हिः कर्तरि। स्वो भावकर्मकर्तृष्विति। उक्तं च कैयटेनापि– `हिशब्दस्य कर्ता वाचयः, स्वशब्दस्य तु भावकर्मकर्तार इति। अत्र नव्याः– `अल्पे' `ह्यस्वे' इत्यादौ कप्रत्ययवत्क्रियासमभिहारे लोडयं स्वर्थिक एव। न त्व\उfffद्स्मल्लोटि `लः कर्मणि चे' त्याद्यर्थोऽभ्युपेयः, प्रयोजनाऽभावात्। यदि तु हिशब्दस्य कर्ता अर्थः स्यात्, पुनः पुनरतिशयेन वा यानं ह्रन्तस्यार्थ इति वक्षमाणग्रन्थः स्वरसतो न सङ्गच्छेत। याहियाहीत्यादौ तु कत्र्रादिप्र्तीतिर्यातीत्यादिसमभिव्याहारेण सुलभैव। यथा एधांचक्रे इत्यत्र तङादेशात्प्रागेव आमः परस्य लेर्लुक्यामन्ते सह्ख्याप्तीत्भावेऽपि चक्रे इत्यनुप्रयोगवशेन एकर्तृका वृद्धिरूपा क्रियेत्यविद्यमानाऽपि सङ्ख्या प्रतीयते, तथैव हिस्वान्तेष्पि कालकारकसङ्ख्याप्रतीतिर्यातीत्याद्यनुप्रयोगबलेन भवतीत्याहुः। स्यादेतत्– `क्रियासमभिहारे हिस्वौ लोड्वा च तध्वमो'रिति सूत्रमस्तु। तथा च हिस्वौ लोटौ न भवत इत लोड्धर्मकावित्यर्थः पूर्वोक्तरीत्या स्यादिति सर्वेष्टसिद्धौ किमनेन लोट इति षष्ठ\उfffद्न्तकरणेनेतिचेत्। अत्राहुः— हिस्वयोर्यदि लोट्स्थानिकत्वं न स्वीक्रियते तर्हि तयोर्लोडादेशवद्भावेन `ईहल्यघो'रित्यादिप्रवृत्त्या लुनीहीत्यादिसिद्धावपि हिस्वान्तस्य लोडन्तत्वं न सिध्येत्। तथा च `हन्त चे'त्यनुदात्तविकल्पो न स्यात्, `हन्त! प्रलुनीहिप्रलुनीहीत्ययं लुनाति'। एवंच लोडन्तत्वलाभार्थं `लोटो हिस्वा'विति विधीयते। यदि तु `हिस्वौ लो'डित्युक्तेऽपि लोड्वद्भावाश्रयेण लोडन्तकार्यं `हन्त चे'ति स्वरविकल्पः सिध्यतीति ब्राऊषे तर्हि स्थानिवद्भावलब्धलोड्?धर्मकौ हिस्वावित्यर्थस्याऽनाश्रयणाल्लोडादेशकार्याणि परस्मैपदात्मनेपदतिङ्संज्ञास्तु न सिध्यन्ति। तथा च पूर्वोक्तदोषस्तदवस्थः स्यात्। `लोट् लोटो हिस्वौ'इत्युक्ते तु स्थानिवद्भावेन हिस्वयोर्लोट्?त्वाल्लोडन्तकार्यं स्वरविकल्प सिध्यति, `क्रियासमभिहारे लोडि'ति वाक्याल्लोडित्यरनुवर्त्त्य हिस्वौ लोडिति प्रागेव व्याख्यातत्वाल्लोपडादेशवद्भावेन परस्मैपदात्मनेपदसंज्ञादीन्यपि सिध्यन्तीति।
TBD.