Table of Contents

<<3-3-64 —- 3-3-66>>

3-3-65 क्वणो वीणायां च

प्रथमावृत्तिः

TBD.

काशिका

नौ वा अनुपसर्गे इति वर्तते। क्वणतेः धातोः निपूर्वादनुपसर्गाच् च वीणायां वा अप् प्रत्ययो भवति। घञो ऽपवादः। सोपसर्गार्थं वीणाया ग्रहणम्। निक्वणः, निक्वाणः। अनुपसर्गात् क्वणः, क्वाणः। वीणायां खल्वपि कल्याणप्रक्वणा वीणा। एतेषु इति किम्? अतिक्वाणो वर्तते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

–

तत्त्वबोधिनी

1546 क्वणो। `निक्वाणो निक्वणः क्वाणः क्वणः क्वणनमित्यपि। वीणायाः क्वणिते प्रादेः प्रक्वाणप्रक्वणादयः' इत्यमरः।

Satishji's सूत्र-सूचिः

TBD.