Table of Contents

<<3-3-64 —- 3-3-66>>

3-3-65 क्वणो वीणायां च

प्रथमावृत्तिः

TBD.

काशिका

नौ वा अनुपसर्गे इति वर्तते। क्वणतेः धातोः निपूर्वादनुपसर्गाच् च वीणायां वा अप् प्रत्ययो भवति। घञो ऽपवादः। सोपसर्गार्थं वीणाया ग्रहणम्। निक्वणः, निक्वाणः। अनुपसर्गात् क्वणः, क्वाणः। वीणायां खल्वपि कल्याणप्रक्वणा वीणा। एतेषु इति किम्? अतिक्वाणो वर्तते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1546 क्वणो। `निक्वाणो निक्वणः क्वाणः क्वणः क्वणनमित्यपि। वीणायाः क्वणिते प्रादेः प्रक्वाणप्रक्वणादयः' इत्यमरः।

Satishji's सूत्र-सूचिः

TBD.