Table of Contents

<<3-2-40 —- 3-2-42>>

3-2-41 पूःसर्वयोर् दारिसहोः

प्रथमावृत्तिः

TBD.

काशिका

पुर् सर्व इत्येतयोः करमणोः उपपदयोः यथासङ्ख्यं दारिसहोः धात्वोः खच् प्रत्ययो भवति। पुरं दारयति पुरन्दरः। सर्वंसहो राजा। भवे च दारेरिति वक्तव्यम्। भगन्दरः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

771 पूः सर्वयोर्दारिसहोः। दारिसहोरिति पञ्चम्यर्थे षष्ठी। पुर्?शब्दे सर्वशब्दे च कर्मवाचिन्युपपदे दारेः सहेश्च खजित्यर्थः। यथासङ्ख्यमन्वयः। `दारी'ति ण्यन्तस्य ग्रहणम्। पुरन्दर इति। पुरं दारयतीति विग्रहे दारेः खचि णिलोपे `खचि ह्यस्वः' इत्युपधाह्यस्वे सुपी लुकि `वाचंयमपुरन्दरौ चे'ति खचो विकल्पविधौ खजभावे `कर्मण्य'णित्यस्य सिद्धत्वादण्ग्रहमं व्यर्थमित्यत आह– असंज्ञार्थमिति। भगे चेति। इत्यादि स्पष्टम्। ऋतिह्कर इति। ऋतिर्गमनम्। अभयह्करशब्दं साधयितुमाह– भयशब्देन तदन्तविधिरिति। इदं च `येन विधि'रित्यत्र भाष्ये स्पष्टम्।

तत्त्वबोधिनी

641 पूः सर्वयोः। दृ? विदारणे अयमव गृह्रते, न तु दृ? भये दृङ् आदर इत्येताविति संप्रदायः। असंज्ञार्थमिति संज्ञायां तु `शंज्ञायां भृतृ?वृजि' इति वक्ष्यमाणेन सिध्यतीति भावः।

Satishji's सूत्र-सूचिः

TBD.