Table of Contents

<<3-2-25 —- 3-2-27>>

3-2-26 फलेग्रहिरात्मम्भरिश् च

प्रथमावृत्तिः

TBD.

काशिका

फलेग्रहिः आत्मम्भरिः इत्येतौ शब्दौ निपात्येते। फलशब्दस्य उपपदस्य एकारान्तत्वम् इन्प्रत्ययश्च ग्रहेर् निपात्यते। फलानि गृह्णाति इति फलेग्रहिर् वृक्षः। आत्मशब्दस्य उपपदस्य मुमागम इन्प्रत्ययश्च भृञो निपात्यते। आत्मानं बिभर्ति आत्मम्भरिः। अनुक्तसमुच्चयार्थश्चकारः। कुक्षिम्भरिः। उदरम्भरिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

753 फलेघिः। ग्रहेरिन्निति। नतु `गृहू ग्रहणे' इति ऋदुपधादित्यर्थः। मुमागम इति। आत्मन्शब्दस्य नलोपे कृते अकारादुपरि मुमित्यर्थः। चकारोऽनुक्तसमुच्चयार्थ इति मत्वा आह– चात्कुक्षम्भरिरिति। भाष्ये तु `भृञः कुक्ष्यात्मनोर्मुम् चेति वक्तव्य'मिति स्थितम्। `स्यादवन्ध्यः फलेग्रहिः' इति वृक्षपर्याये अमरः। `उभावात्मम्भरिः कुक्षिम्भरिः स्वोदरपूरके' इति विशेष्यनिघ्नवर्गे। उदरम्भरिशब्दं समर्थयितुमाह– चान्द्रास्त्विति।

तत्त्वबोधिनी

628 कुक्षिम्भरिरिति। एवं च `गिरिस्तु कनकाचलः, कति न सन्ति चाश्मव्रजाः, किटिस्तु धरणीधरः,कति न सन्ति भूदारकाः। मरुत्तु मलयानिलः, कति न सन्ति झञ्झानिलाः,प्रभुस्तु विबुधाश्रयः, कति न सन्ति कुक्षिम्भराः'इति केषांचित्प्रयोगः प्रामादिक एव।

Satishji's सूत्र-सूचिः

TBD.