Table of Contents

<<3-2-183 —- 3-2-185>>

3-2-184 अर्तिलूधूसूखनसहचर इत्रः

प्रथमावृत्तिः

TBD.

काशिका

ऋ गत्रौ, लूञ् छेदने, धू विधूनने, षू प्रेरणे, खनु अवदारने, षह मर्षणे, चर गतिभक्षणयोः, एतेभ्यो धातुभ्यः करणे कारके इत्रः पत्ययो भवति। अरित्रम्। अवित्रम्। धवित्रम्। सवित्रम्। खनित्रम्। सहित्रम्। चरित्रम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

967 अर्तिलूधू। अर्ति, लू, धू, सू , खन, सह , चर एषां सप्तानां द्वन्द्वात्पञ्चमी।

तत्त्वबोधिनी

792 अर्तिलूधूसू। धू विधूनने इति कुटादिरेव गृह्रते, निरनुबन्धकत्वात्। अत एव `गाङ्कुटे'ति ङित्त्वाद्गुणनिषेधे उवङ्। तदाह– धुवित्रमिति।

Satishji's सूत्र-सूचिः

TBD.