Table of Contents

<<3-2-183 —- 3-2-185>>

3-2-184 अर्तिलूधूसूखनसहचर इत्रः

प्रथमावृत्तिः

TBD.

काशिका

ऋ गत्रौ, लूञ् छेदने, धू विधूनने, षू प्रेरणे, खनु अवदारने, षह मर्षणे, चर गतिभक्षणयोः, एतेभ्यो धातुभ्यः करणे कारके इत्रः पत्ययो भवति। अरित्रम्। अवित्रम्। धवित्रम्। सवित्रम्। खनित्रम्। सहित्रम्। चरित्रम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

967 अर्तिलूधू। अर्ति, लू, धू, सू , खन, सह , चर एषां सप्तानां द्वन्द्वात्पञ्चमी।

तत्त्वबोधिनी

792 अर्तिलूधूसू। धू विधूनने इति कुटादिरेव गृह्रते, निरनुबन्धकत्वात्। अत एव `गाङ्कुटे'ति ङित्त्वाद्गुणनिषेधे उवङ्। तदाह– धुवित्रमिति।

Satishji's सूत्र-सूचिः

TBD.