TBD.
दुह सनु नम् इत् येतेषं कर्मकर्तरि यक्चिणौ कर्मवद्भावापदिष्टौ न भवतः। दुहेरनेन यक् प्रतिषिध्यते। चिण् तु दुहश्च 3-1-63 इति पूर्वम् एव विभाषितः। दुग्धे गौः स्वयम् एव। अदुग्ध गौः स्वयम् एव। अदोहि गौः स्वयम् एव। प्रस्नुते गौः स्वयम् एव। प्रास्नोष्ट गौः स्वयम् एव। नमते दण्डः स्वयम् एव। अन्ंस्त दण्डः स्वयम् एव। यक्चिणोः प्रतिषेधे णिश्रन्थिग्रन्थिब्रूञ्. आत्मनेपदाकर्मकाणाम् उपसङ्ख्यानम्। कारयति कटं देवदत्तः। कारयते कटः स्वयम् एव। अचीकरत् कटं देवदत्तः। अचीकरत कटः स्वयम् एव। उत्पुच्छयते गां गोपः। उत्पुच्छयते गौः स्वयम् एव। उदपुपुच्छत गौः स्वयम् एव। श्रथ्नाति ग्रन्थं देवदत्तः। श्रथ्नीते ग्रन्थः स्वयम् एव। अश्रन्थिष्ट ग्रन्थः स्वयम् एव। ग्रथ्नाति श्लोकं देवदत्तः। ग्रथ्नीते श्लोकः स्वयम् एव। अग्रन्थिष्ट श्लोकः स्वयम् एव। ब्रवीति श्लोकं देवदत्तः। ब्रूते श्लोकः स्वयम् एव। अवोचत् श्लोकं देवदत्तः। अवोचत श्लोकः स्वयम् एव। आत्मनेपदविधाने ऽकर्मकाणाम् आहन्ति माणवकं देवदत्तः। आहते माणवकः स्वयम् एव। आवधिष्ट मानवकः स्वयम् एव, आहत इति वा। विकुर्वते सैन्धवाः स्वयम् एव। व्यकृषत सैन्धवः स्वयम् एव।
TBD.
–
592 न दुह। दुह स्नु नम् एषां द्वन्द्वः। कर्मकर्तरीति। एतत्तु नाऽनुवृत्तिलभ्यं, पूर्वत्रानुपलम्भात्। किंतु `कर्मवत्कर्मणा तुल्यक्रियः' इति समभिव्याहारलभ्यमेव। `अचः कर्मकर्तरी'त्यतो मण्डूकप्लुत्या तदनुवृत्तिर्वा। दुहेरनेनेति। `न दुहस्नुनमा'मित्यनेन दुहेः कर्मकर्तरि यक एव निषेधः। चिण्तु `दुहश्चे'ति वक्ष्यमाणसूत्रेण विकल्पितो वक्ष्यते इत्यर्थः। कर्मकर्तरि तशब्दे परे दुहेश्चिण्वेति तदर्थः। `चिण्तु विकल्पेनेष्यते' इति क्वचित्पाठः। दुग्धे इत्यत्र प्रक्रियां दर्शयति– शप् लुगिति। दुहेः कर्मकर्तरि यकि निषिद्धे शप्प्रवर्तते, तस्य `अदिप्रभतिभ्यः' इति लुगित्यर्थः। `गौः पयो दुग्धे इति। गौः स्वयमेव पय उत्सृजतीत्यर्थः। कर्मकर्तृभूतायां गवि लट्। स्वरितेत्त्वेऽपि `भावकर्मणो'रित्यात्मनेदमेव। `न दुहेति न यक्। गांपयो दुग्धे इति तु नोदाह्मतम्, `गौणे कर्मणि दुह्रादेर्लादयो मताः'इत्युक्तेः। अचः कर्मकर्तरि। `च्लेः सि'जित्यतश्च्लेरिति, `चिण् ते पदः'इत्यतश्चिण्ते इति, `दीपजने'त्यतोऽन्यतरस्यामिति चानुवर्तते। `धातोरेकाचः' इत्यतोऽनुवृत्तस्य धातुग्रहणस्य अचा विशेषतत्वात्तदन्तविधिः। तदाह– अजन्तादित्यादिना। अकारीति। `कटः स्वयमेवे'ति शेषः। कर्मकर्तरि लुङ्। च्लेश्चिण्। वृद्धिः। रपरत्वम्। `चिणो लु'गिति तशब्दस्य लुक्। अकृतेति। चिणभावपक्षे `ह्यस्वादङ्गा'दिति सिचो लोपः।
487 दुहिपच्योरिति। द्विकर्मकत्वादनयोरेकस्य कर्मणः कर्तृत्वविवक्षायाममि सकर्मकत्वान्निषेधे प्राप्तेऽयमारम्भः। गौः पयो दुग्धे इति। अत्र कर्मवद्भावेनात्मनेपदं नित्यं। `गौणे कर्मणि दुह्रादेः' इत्युक्तत्वान्मुख्यकर्मणः कर्तृत्वविवक्षायां पयो गां दुग्धे इति नोदाह्मतमित्याहुः। एवं च `प्रधाने नीहकृष्वहा'मित्युक्तत्वात्तुल्यन्यायेन न्यादीनां मुख्यकर्मण एव कर्तृत्वविवक्षेति फलितम्।
TBD.