Table of Contents

<<3-1-60 —- 3-1-62>>

3-1-61 दीपजनबुधपूरितायिप्यायिभ्यो ऽन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

चिण् ते इति वर्तते। दीपी दीप्तौ, जनी प्रादुर्भावे, बुध अवगमने, पूरी आप्यायने, तायृ सन्तानपालनयोः, ओप्याऽयी वृद्धौ, एतेभ्यः परस्य च्लेः तशब्दे परतो ऽन्यतरस्यां चिणादेशो भवति। अदीपि, अदीपिष्ट। अजनि, अजनिष्ट। अबोधि, अबुद्ध। अपूरि, अपूरिष्ट। अतायि, अतायिष्ट। अप्यायि, अप्यायिष्ट।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

643 एभ्यश्च्लेश्चिण् वा स्यादेकवचने तशब्दे परे..

बालमनोरमा

168 दीपजन। `च्लेः सि'जित्यत च्लेरिति, `चिण् ते पदः' इत्यस्माच्चिण् ते इति चानुवर्तते। तदाह–एभ्यश्च्लेरिति। एकवचन इति। दीपादीनामात्मनेपदित्वेन तेभ्यस्तशब्दस्य एकवचनत्वनियमादिति भावः।

तत्त्वबोधिनी

141 दीपजन। `दीपी दीप्तौ', `जनी प्रादुर्भावे', `बुध अवगमने', `पूरी आप्यायने'। एते दिवादयः।

Satishji's सूत्र-सूचिः

वृत्ति: एभ्यश्च्लेश्चिण् वा स्यादेकवचने तशब्दे परे । When the term “त” (आत्मनेपदप्रथमपुरुषैकवचनम्) follows, there is an optional substitution of “चिण्” in place of “च्लि” when following the verbal root √दीप् (दीपीँ दीप्तौ ४. ४५), √जन् (जनीँ प्रादुर्भावे ४. ४४), √बुध् (बुधँ अवगमने ४. ६८), √पूर् (पूरीँ आप्यायने ४. ४६), √ताय् (तायृँ सन्तानपालनयोः १. ५६२) or √प्याय् (ओँप्यायीँ वृद्धौ १. ५६१).

उदाहरणम् – अजनि/अजनिष्ट derived from √जन् (जनीँ प्रादुर्भावे ४. ४४). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

चिण्-पक्षे
जन् + लुँङ् 3-2-110
= जन् + ल् 1-3-2, 1-3-3, 1-3-9
= जन् + त 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-12
= जन् + च्लि + त 3-1-43
= जन् + चिण् + त 3-1-61. Note: This चिण् substitution is optional.
= जन् + इ + त 1-3-3, 1-3-7, 1-3-9

Example continued under 7-3-35