Table of Contents

<<3-1-130 —- 3-1-132>>

3-1-131 अग्नौ परिचाय्यौपचाय्यसमूह्याः

प्रथमावृत्तिः

TBD.

काशिका

परिचाय्य उपचाय्य समूह्य इत्येते शब्दा निपात्यन्ते अग्नावभिधेये। परिपूर्वतुपपूर्वाच् च चिनोतेर् ण्य दायादेशौ निपात्येते। परिचाय्यम्। उपचाय्यः। सम्पूर्वाद् वहेः सम्प्रसारणं दीर्घत्वं च निपात्यते। समूह्यं चिन्वीत पशुकामः। अग्नौ इति किम्? परिचेयम्। उपचेयम्। संवाह्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

709 अग्नौपरिचाय्य। अग्नौ गम्ये –परिचाय्य, उपचाय्य, समूह्र एते निपात्यन्ते। अग्निशब्द इष्टकारचित्तस्थण्डिलविशेषे वर्तते, यन्मृदा चाद्भिश्चाग्निश्चीयतेऽथ कस्मादग्निरुच्यत इति यच्छन्दोभिश्चिनोत्यग्नयो वै छन्दांसी तस्मादग्निरुच्यतेऽथो इयं वा अगनिर्वै\उfffदाआनरो यन्मृदा चिनोति तस्मादग्निरुच्यते' इति वाक्यशेषाच्च। तदाह– अग्निधारणेति। तत्र परिपूर्वादुपपूर्वाच्च चिञः कर्णि ण्यत्, आयादेशश्च निपात्यते। संपूर्वस्य वहेस्तु कर्मणि ण्यति संप्रसारणं, दीर्घश्च निपात्यते। `समूह्रं चिन्वीत पशुकामः, परिचाय्यंचिन्वीत ग्रामकामः'इति तैत्तिरीयश्रुतौ परिचाय्यसमूह्रौप्रसिद्धौ। उपचाय्यस्त्वग्निःक्वचिच्छाखायामन्वेषणीयः।

तत्त्वबोधिनी

590 अग्नौ परि।अग्निरिह न ज्वलनः,किं तु तद्धारणार्थमिष्टकाचयनेन निर्मितं स्थलं, तदाह–स्थलविशेष इति। एते साधव इति। स्थलविशेषेऽभिधेये परिपूर्वाच्चिनोतेण्र्यदायादेशयोः, संपूर्वस्य वहेस्तु संप्रसारणदीर्घयोश्च निपातनादिति भावः।

Satishji's सूत्र-सूचिः

TBD.