Table of Contents

<<2-4-64 —- 2-4-66>>

2-4-65 अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश् च

प्रथमावृत्तिः

TBD.

काशिका

अत्र्यादिभ्यः परस्य गोत्रप्रत्ययस्य बहुषु लुग् भवति। अत्रिशब्दातितश्च अनिञः 4-1-122 इति ढक्। इतरेभ्यः ऋष्यण्। अत्रयः भृगवः। कुत्साः। वसिष्ठाः। गोतमाः। अङ्गिरसः। बहुषु इत्येव, आत्रेयः। भर्गवः। तेन एव इत्येव, प्रियात्रेयाः। प्रियभार्गवाः। अस्त्रियाम् इति किम्? आत्रेय्यः स्त्रियः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1131 अत्रिभृगु। पूर्वसूत्राद्गोत्र इति, तत्र यदनुवृत्तं तच्च सर्वमिहानुवर्तते। तदाह–एभ्यो गोत्रेति। अत्रेः, भृगोः, कुत्सस्य, वसिष्ठस्य, गोतमस्य, अङ्गरसश्च अपत्यानि पुमांस इति विग्रहाः। तत्र अत्रेः `इतश्चाऽनिञः' इति ढको।ञनेन लुक्। इतरेभ्यस्तु ऋष्यण इति बोध्यम्। लुकि आदिवृद्धेर्निवृत्तिः।

तत्त्वबोधिनी

942 अत्रि। गोत्रप्रत्ययस्येति। अत्रि शब्दात् `इतश्चाऽनिञः'इति ढिक्।इतरेभ्यस्तु ऋष्यणिति बोध्यम्। भारतगोत्रे उदाहरति।

Satishji's सूत्र-सूचिः

TBD.