Table of Contents

<<2-3-73 —- 2-4-2>>

2-4-1 द्विगुरेकवचनम्

प्रथमावृत्तिः

TBD.

काशिका

द्विगुः समासः एकवचनं भवति। एकस्य वचनम् एकवचनम्। एकस्य अर्थस्य वाचको भवति इत्यर्थः। तदनेन प्रकारेण द्विग्वर्थस्य एकवद् भावो विधीयते, द्विग्वर्थ एकवद् भवति इति। समाहारद्विगोश्च इदं ग्रहणम्, न अन्यस्य। पञ्चपूलाः समाहृताः पञ्चपूली। दशपूली। द्विग्वर्थस्य्)अ ए)कत्वादनुप्रयोगे ऽप्येकवचनं भवति, पञ्चपूलीयं शोभना इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

945 द्विग्वर्थः समाहार एकवत्स्यात्..

बालमनोरमा

721 द्विगुरेकवचनम्। अत्र `समाहारग्रहणं कर्तव्य'मिति वार्तिकात्समाहार इति लभ्यते। वक्तीति वचनम्। बाहुलकः कर्तरि ल्युट्। सामान्ये नपुंसकम्। समाहारे द्विगुरेकार्थप्रतिपादकः स्यादिति लभ्यते। तत्र यदि समाह्यियत इति कर्मणि घञि समाहारशब्दः समाह्मतप्रधानः तदा समाह्मतगतद्वित्वबहुत्वयोः एकत्वानुपपत्तेरतिदेशः सम्पद्यते। तदाह–द्विग्वर्थः समाहार एकवदिति। यदा समाहरणं समाहारः=समूहः, तदा तस्यैकत्वादेव सिद्धमिति नेदं सूत्रमारम्भणीयमिति भाष्ये स्पष्टम्। केचित्तु समूहस्य वस्तुत एकत्वेऽपि उद्भूतावयवभेदविवक्षया द्विबहुवचनव्यावृत्त्यर्थमिदम्। एवं चात्र उद्भूतावयवभेदविवक्षा न कर्तव्येति फलतीत्याहुः। समाहारे द्विगुद्र्वन्द्वश्च नपुंसकं स्यादिति तदर्थो मूले वक्ष्यते।[इति द्विगुसमासः]।

तत्त्वबोधिनी

639 द्विगुरेकवचनम्। वक्तीति वचनम्। बाहुलकात्कर्तरि ल्युट्। `सामान्ये नपुंसकम्'। द्विगुः समास एकर्थप्रतिपादको भवतीत्यर्थः। न च वस्तुतोऽनेकार्थस्यैकार्थत्वं कथंचिदुपपद्यत इति सामथ्र्यादतिदेशः संपद्यत इत्याह–एकवत्स्यादिति। `समाहारे'इति तूपसङ्ख्यानाल्लभ्यते। समाहारे यो द्विगुस्तदर्थ एकवदित्यवयः। समाहारे किम्?। तद्धितार्थे माभूत्। पञ्चसु कपालेषु संस्कृताः पञ्चकपालाः, पञ्चभिर्गोभिः क्रीताः पञ्चगवः पटाः। पञ्चगवे पञ्चगवानीत्यत्र तु प्रथम् द्विगर्थस्यैकवद्भावे कृते योऽयमेकशेषे कृते द्विगर्थसमुदायस्तस्याऽद्विगर्थत्वाद्बहिरङ्गत्वाच्चैतवद्भावो न भवतीति स्थितमाकरे। यदा `तद्धितार्थ'इति सूत्रे `समाहारे'इति कर्मसाधनस्तदा समाह्मतप्रधानो द्विगुरिति बहुत्वे प्राप्तेऽनेन एकवद्भावः क्रियते। यदा तु भावसाधन एव समाहारस्तदा समूहप्रधानत्वाद्द्विगोः, समूहस्य चैकत्वात्सिद्धमेकत्वमिति नास्य प्रयोजनम्। न च `स नपुंसक'मिति नपुंसकत्वार्थमेकत्वविधानमितिवाच्यं, समुदायवाचकेषु `सामान्ये नपुंसक'मित्यभ्युपगमे बाधकाऽभावादित्याहुः। वस्तुतस्तु `तद्धितार्त'इति सूत्रे समाहार इति भावे घञ्न तु कर्मणि। `पञ्चगव'मित्यत्र पञ्च गव#ः समाह्मता इत्यर्थाभ्युपगमे समाह्यियमाणानां बहुत्वेन एकवचनानुपपत्तेः। न च `द्विगुरेकवचन'मिति सूत्रान्नैवमिति वाच्यम्, पञ्चखट्वीत्यसिद्धेः। तत्र हि पञ्च खट्वाः समाह्मताः, पञ्चसु खट्वासु समाह्मतास्वित्येवं विग्रहसंभवेन नियतविभक्तित्वाऽभावादेविभक्ति चापूर्वनिपाते इत्यप्रवृत्तेरनुपसर्जनत्वात् `गोस्त्रियो'रिति ह्यस्वो न स्यात्। ततश्च `आबन्तो वे'ति स्त्रीत्वपक्षे `द्विगोः'इत्यदन्तलक्षणो ङीब्न स्यात्। भावसाधनत्वे त्वेकविभक्तित्वादुपसर्जनत्वमव्याहतमेव। समाहारापेक्षया नियमेन वर्तिपदानां षष्ठ\उfffद्न्तत्वात्, तथा च पञ्चखट्वीत्यादिरूपं निर्बाधमेवेति दिक्। स नपुंसकमिति। एतस्यार्थो मूल एव स्फुटीभविष्यति।

Satishji's सूत्र-सूचिः

TBD.