Table of Contents

<<2-3-60 —- 2-3-62>>

2-3-61 प्रेष्यब्रुवोर् हविषो देवतासम्प्रदाने

प्रथमावृत्तिः

TBD.

काशिका

प्रेष्य इति इष्यतेर् दैवादिकस्य लोण्मध्यमपुरुषस्य एकवचनम्, तत्साहचर्याद् ब्रुविरपि तद्विषय एव गृह्यते। प्रेष्यब्रुवोर्हविषः कर्मणः षष्थी विभक्तिर् भवति देवतासम्प्रदाने सति। अग्नये छागस्य हविषो वपाया मेदसः प्रे3ष्य। अग्नये छागस्य हविषो वपायै मेदसो ऽनुब्रूहि3। प्रेष्यब्रुवोः इति किम्? अग्नये छागं हविर्वपां मेदो जुहुधि। हविषः इति किम्? अग्नये गोमयानि प्रेष्य। देवतासम्प्रदाने इति किम्? माणवकाय पुरोडाशं प्रेष्य। हविषः प्रस्थितस्य प्रतिषेधो वक्तव्यः। इन्द्राग्निभ्यां छागं हविर्वपां मेदः प्रस्थितं प्रेष्य3।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

548 प्रेष्यब्राउवोः। इष्यतेक्दैवादिकस्य लोटो मध्यमपुरुषैकवचनं—प्रेष्यति। तत्साहचर्याद्द्र विरपि तथाभूत एव गृह्रते। अत एवेह शेषग्रहणं न सम्बध्यते। तिङन्तेन सह समासस्याऽप्रसक्तत्वात्। प्रेष्याब्राउवोः किम्?। अग्नेय छागस्य हहविर्वपां मेदो जुहुधि। हविषः किम्?। अग्नये गोमयानि प्रेष्य। देवता सम्प्रदाने किम्?। माणवकाय पुरोडाशान्प्रेष्य। `हविषः प्रस्थितत्वेन विशेषणे प्रतिषेधो वक्तव्यः'। इन्द्राग्निभ्यां छागस्य हविर्वपां मेदः प्रेष्य।

Satishji's सूत्र-सूचिः

TBD.