TBD.
षष्ठीसप्तम्यौ वर्तते। स्वामिनीश्वर अधिपति दायाद साक्षिन् प्रतिभू प्रसूत इत्येतैर् योगे षष्ठीसप्तम्यौ विभक्ती भवतः। गवां स्वामी, गोषु स्वामी। गवामीश्वरः, गोष्वीश्वरः। गवामधिपतिः, गोष्वधिपतिः। गवां दायादः, गोषु दायादः। गवां साक्षी, गोषू साक्षी। गवां प्रतिभूः, गोषु प्रतिभूतः। गवां प्रसूतः, गोषु प्रसूतः। षष्ठ्याम् एव प्राप्तयां पक्षे सप्तमीविधानार्थं वचनम्।
TBD.
–
628 फलितमाह–रुदन्तं पुत्रादिकमिति। स्वामी\उfffदार। षष्ठीसप्तम्याविति। चकारेण तदुभयानुकर्षणादिति भावः। ननु शेषषष्ठ\उfffदैव सिद्धे किमर्थमिह षष्ठीविधानमित्यत आह–षष्ठ\उfffदामेवेति। गवां गोषु वेति। गोसंबन्धीत्यर्थः। गवां गोषु वा ई\उfffदारः। गवां गोषु वा अधिपतिः। गवा गोषु वा दायादः। पुत्रादिभिग्र्रहीतुं योग्यः पित्राद्यर्जितधनांशो दायः। तमादत्त इति दायादः। `आतोऽनुपसर्गे' इति कविधौ अनुपसर्गग्रहणे सत्यपि अत एव निपातनात्कः। गोसंबन्धिदायाद इत्यर्थः। गवां च दाये अन्वयः नित्यसाकाङ्क्षत्वाद्वृत्तिः। गवात्मकस्यांशस्य आदातेति फलितोऽर्थः। `यस्मादधिकम्' इति सूत्रभाष्ये तु दायादशब्द स्वामिपर्याय इति स्थितम्। गवां गोषु वा प्रसूत इति। गोसंबन्धीत्यर्थः। संबन्धश्च भोक्तृत्वरूपः। तदाह–गा एवेति। एवशब्दान्महिषादिव्यावृत्तिः।
559 स्वामी\उfffदार। `स्वाम्यर्थे'ति वक्तव्ये स्वाम्यादित्रयग्रहणं पर्यायान्तरनिवृत्त्यर्थम्। `विरूपाणामपि समानार्थानाम्' इत्येकशेषोऽत्र न भवति, स्वरूपपरत्वेन समानार्थकत्वाऽभावात्। दायाद इति। दायमादत्ते इति दायादः। सोपसर्गादप्यादन्तादत एव निपातनात्कः। `गवां गोषु वा दायाद' इत्यत्र यद्यपि गवाभित्येतत्समुदायस्य विशेषणं, तथापि दीयतेऽसौ दाय इति व्युत्पत्त्या अवयवार्थभूतमंशं स्पृशत्येव, तथा चात्र गवात्मकस्यांऽशस्य आदातेति फलितम्।
TBD.