TBD.
सप्तमी इति वर्तते। भावः क्रिया। यस्य च भावेन यस्य च क्रियया क्रियान्तरं लक्ष्यते, ततो भाववतः सप्तमी विभक्तिर् भवति। प्रसिद्धा च किया क्रियान्तरं लक्षयति। गोषु दुह्यमानासु गतः, दुग्धास्वागतः। अग्निषु हूयमानेषु गतः, हुतेष्वागतः। भावेन इति किम्? यो जटाभिः स भुङ्क्ते। पुनर् भावग्रहणं किम्? यो भुङ्क्ते स देवदत्तः।
TBD.
–
626 यस्य च। भावशब्दौ क्रियापर्यायावित्यभिप्रेत्य व्याचष्टे–यस्य क्रिययेति। क्रिया च कत्र्राश्रया कर्माश्रया च। तत्र कर्माश्रयामुदाहरति–गोष्विति। देवदत्तः कदा गत इति प्रश्ने उत्तरमिदम्। अत्र लक्षकत्व संबन्धे सप्तमी। शेषषष्ठ\उfffद्पवादः। वर्तमानदोहनविशिष्टाभिर्गोभिज्र्ञाप्यगमनवानित्यर्थः। अत्र दोहनक्रियायाः साक्षाल्लक्षकता। गवां तु तदाश्रयतया। ततश्च गोदोहनदशायां गत इत्युत्तरं पर्यवस्यति। `दुग्धासु गत' इत्यत्र तु अतीतदोहनविशिष्टाभिर्गोभिज्र्ञाप्यमानगमनवानित्यर्थः। गोदोहोत्तरकाले गत इति फलितम्। कर्तृगतक्रियायास्तु ब्राआहृणेष्वधीयानेषु हगत इत्युदाहार्यम्। अत्र यदवश्यं पुनः पुनर्लक्ष्यज्ञापकं तदेव न लक्षणम्। किंतु सकृज्ज्ञापकमपि। यथा-यं कमण्लुपाणिं भवानद्रीक्षीत्स छात्र इति। यद्यपि सकृदसौ कमण्डलुपाणिर्दृष्टस्तथापि तस्य कमण्डलुर्लक्षणं भवत्येवेति प्रकृतसूत्रे भाष्ये स्पष्टम्। `उदिते आदित्ये जुहोती'त्यत्र तु सामीपिकमधिकरणत्वं सप्तम्यर्थः। उदितादित्यसमीपकाल इत्यर्थः। आदित्योदयोत्तरसमीपकाल इति पर्यवसन्नोऽर्थः। `उपरागे रुआआयात्' इत्यत्र तु उपरागपदेन उपरागाश्रयकालो लक्ष्यत इत्यधिकरणसप्तम्येवेत्यन्यत्र विस्तरः।
557 यस्य च। निज्र्ञातकाला हि क्रिया अनिज्र्ञातकालायाः क्रियायाः कालपरिच्छेदकत्वाल्लक्षणं, तत्र प्रसिद्धक्रियाश्रययोः कर्तृकर्मणोर्वाचकाद्ब्राआहृणादिशब्दाल्लक्ष्यलक्षणभावसम्बन्धे षष्ठ\उfffदां प्राप्तांयामियं सप्तमी। लक्षणकत्वमिह क्रियायाः साक्षात्, आश्रयस्य तु ब्राआहृणादेः क्रियाद्वारेणेति बोध्यम्। `ब्राआहृणेष्वधीयानेषु गत' इति कर्तृर्युदाहरणम्। कर्मण्याह–गोष्विति।\र्\नर्हाणां कर्तृत्वेऽनर्हाणामकर्तृत्वे तद्वैवरीत्ये च। अर्हाणामित्यादि। यस्यां क्रियायां ये उचितास्ते अर्हाः। तेषां कर्तृत्वे विवक्षिते सति तत्र सप्तमी वाच्या। तथा यस्यां क्रियायां येषां कर्तृत्वमनुचितं तेषामकर्तृत्वे विवक्षिते च सप्तमी वाच्या। तथा तद्वैपरीत्ये=येषां कर्तृत्वमुचितं तेषामकर्तृत्वे, येषां तु नोचितं तेषां कर्तृत्वे च सप्तमी वाच्येत्यर्थः। आद्यमुदाहरति—सत्सु तरत्स्विति। सन्तो हि तरणक्रियाऽर्हाः कर्तराश्चष द्वितीयमुदाहरति—असुत्सु तिष्ठत्स्विति। अत्र तरणक्रियायामसतामनर्हत्वमकर्तृत्वं च तिष्ठत्स्वित्यनेन द्योत्यते। तद्वैपरीत्ये प्रथममुदाहरति-सत्सु तिष्ठत्स्विति। सतां हि तरणमुचितं, तेषां चाऽर्तृत्वं तिष्ठत्स्वित्यनेन गम्यते। द्वितीयमुदाहरति–असत्सु तरत्\उfffद्स्वति। असतां हि तरणमनुचितं, तेषां च कर्तृत्वं तरत्सु इत्यनेन गम्यते। यद्यपीदं`यस्य च भावेन— 'इत्येव सिद्धं, तथापि लक्ष्य लक्षणभावाऽविवक्षायां सप्तम्यर्थमिदमिति कैयटादयः। तत्त्वतस्तु व्यर्थमेवेदमित्यन्ये।
TBD.