TBD.
मन्यतेः कर्मणि मन्यकर्मणि। मन्यकर्मणि प्राणिवर्जिते विभाषा चतुर्थी विभक्तिर् भवति अनादरे गम्यमाने। अनादरस्तिरस्कारः। न त्वा तृणं मन्ये, न त्वा तृणाय मन्ये। न त्वा बुसं मन्ये, न त्वा बुसाय मन्ये। मन्यतिग्रहणं किम्? न त्वा तृणं चिन्तयामि। विकरणनिर्देशः किम् अर्थः? न त्वा तृणं मन्वे। अनादरे इति किम्? अश्मानं दृषदं मन्ये मन्ये कष्ठमुलूखलम्। अन्धायास्तं सुतं मन्ये यस्य माता न पश्यति। अप्रानिषु इति किम्? न त्वा शृगालं मन्ये। यदेतदप्राणिष्विति तदनावादिष्विति वक्तव्यम्। व्यवस्थितविभाषा च ज्ञेया। न त्वा नावं मन्ये यावदुत्तीर्णं न नाव्यम्। न त्वा ऽन्नं मन्ये यावन् न भुक्तं श्राद्धम्। प्राणिषु तूभयम्। न त्वा काकं मन्ये। न त्वा शृगालं मन्ये। इह चतुर्थी द्वितीया च भवतः न त्वा श्वानं मन्ये, न त्वा शुने मन्ये। युष्मदः कस्मान् न भवति चतुर्थी, एतदपि हि मन्यतेः कर्म? व्यवस्थितविभाषाविज्ञानादेव न भवति।
TBD.
–
576 मन्यकर्मणि। `अप्राणिष्वि'ति च्छेदः। `मन ज्ञाने' दिवादिः, श्यन्विकरणः, `मनु अवबोधने' तनादिरिविकरणः। तत्र मन्येति श्यना निर्देशाद्दैवादिकस्य ग्रहणमित्याह- मन्यतेरिति। कर्मणीति। अतो द्वितीयां बाधित्वा पक्षे चतुर्थीति सूचितम्। तिरस्कारे इति। `अनादारे' इत्यस्य व्याख्यानमेतत्। `अनादरः परिभवः परीभावस्तिरस्क्रिया' इत्यमरः। न त्वां तृणमिति। हे देवदत्त त्वां तृणत्वेनापि न मन्ये इत्यर्थः। नञुपादानादयमर्थो लभ्यते। तृणाद्पयधमत्वप्रतीतेस्तिरस्कारातिशयः फलितः। `तृणं त्वां मन्ये तृणाय वे'त्युक्तौ तु तृणसाम्यमेव प्रतीयेत। न तु ततोऽप्यपकृष्टत्वम्। एतदेवाभिप्रेत्य भाष्येऽपि नञुपात्तः। न च मन्यकर्मत्वाऽविशेषात्त्वमिति युष्मच्छब्दादपि चतुर्थी शङ्क्या, अनादरद्योतके कर्मणीत्यर्थस्य विवक्षितत्वात्। तृणमेव ह्रत्रानादरद्योतकं, न तु युष्मदर्थः। श्यनेति। तानादिकमनुधातुकर्मणि द्वितीयैव, नतु पक्षे चतुर्थीति भावः। न त्वां तृणं मन्वे इति। मनुधातोरुविकरणस्य लडुत्तमपुरुषैकवचनम्। ननु `न त्वां नावमन्नं मन्ये' इत्यत्रापि चतुर्थीविकल्पः स्यादित्यतिव्याप्तिः, `न त्वां शुने मन्ये' इत्यादौ तु प्राणित्वाच्चतुर्थीविकल्पो न स्यादित्यव्याप्तिः , कर्मणः प्राणित्वादित्यत आह– अप्राणिष्वित्यपनीयेति। न त्वां नावं मन्ये इति। जीर्णां नावं प्रति वाक्यमेतत्। न त्वामन्नं मन्ये इत्यप्युदाहार्यम्। कुत्सितमन्नं प्रति वाक्यमेतत्। उभयत्राप्यप्राणित्वेऽपि न चतुर्थीविकल्पः, किंतु द्वितीयैवेति भावः। न त्वां शुने मन्ये इति। हे देवदत्त। त्वां \उfffदात्वेनापि न मन्ये इत्यर्थः। न त्वां काकं मन्ये, न त्वां शुकं मन्ये, न त्वां सृगालं मन्ये इत्यप्युदाहार्यम्। एषु प्राणित्वेऽपि न चतुर्थीविकल्प इति भावः।
517 श्यना निर्देशादिति। न च मन्य इति यका निर्देशः किं न स्यादिति वाच्यम्, अनभिहित इत्यधिकारात्। न हि यका योगे अनभिहितं कर्म संभवति। श्यन्नपि दैवादिकारधातूपलक्षणमात्रं, न तु स्वयं विवक्षितः। तेन `तृणाय मत्वा रघुनन्दनोऽपि बाणेन रक्षः प्रधनान्निरास्थत्' इति भट्टिप्रयोगः सङ्गच्छते। व्यवस्थितविभाषा विज्ञातव्येति भावः।
TBD.