Table of Contents

<<2-2-34 —- 2-2-36>>

2-2-35 सप्तमीविशेषने बहुव्रीहौ

प्रथमावृत्तिः

TBD.

काशिका

सर्वोपसर्जनत्वाद् बहुव्रीहेरनियमे प्राप्ते नियमार्थं वचनम्। सप्तम्यन्तं विशेषणं च बहुव्रीहिसमासे पूर्वं प्रयोक्तव्यम्। क्ण्ठेकालः। उरसिलोमा। विशेषनम् चित्रगुः। शबलगुः। सर्वनामसङ्ख्ययोरुपसङ्ख्यानम्। सर्वश्वेतः। सर्वकृष्णः। द्विशुक्लः। द्विकृष्णः। अनयोरेव मिथः संप्रधारणायां प्रत्वात् सङ्ख्यायाः पूर्वनिपातः। द्व्यन्यः। त्र्यन्यः। वा प्रियस्य पूवनिपातः। गुडप्रियः, प्रियगुडः। सप्तम्याः पूर्वनिपाते प्रप्ते गड्वादिभ्यः सप्तम्यन्तं परम्। गडुकण्ठः। गडुशिराः। कथं वहेगडुः? प्राप्तस्य चाबाधा व्याख्येया।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

970 सप्तम्यन्तं विशेषणं च बहुव्रीहौ पूर्वं स्यात्. अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः..

बालमनोरमा

889 सप्तमीविशेषणे। `उपसर्जनं पूर्व'मित्यतः पूर्वमित्यनुवर्तते। प्रत्ययग्रहणपरिभाषया सप्तमीति तदन्तग्रहणं। तदाह–सप्तम्यन्तमिति। कण्ठेकाल इति। `कण्ठे तिष्ठतीति कण्ठेस्थः, स कालो यस्येति विग्रहः। `सुपी'ति योगविभागात्कः। `सप्तम्युपमानपूर्वपदस्ये'ति बहुव्रीहि समासः, स्थशब्दलोपश्चे'ति `अनेकमन्यपदार्थे' इति सूत्रे भाष्ये स्पष्टम्। `अमूर्धमस्तका'दिति सप्तम्या अलुक्। अत एवेति। यद्यपि कण्ठेस्थशब्दः प्रथमान्त एवात्र बहुव्रीहौ पूर्वपदं, तस्य कालशब्देन सामानाधिकरण्यमस्त्येवेति कथं सप्तमीग्रहणं व्यधिंकरणपदबहुव्रीहिज्ञापकम्। किंच विशेषणत्वादेव सिद्धे किं वा सप्तमीग्रहणेन ?। तथापि यदा स्थपदमनादृत्य `कण्ठे' इत्यस्याधिकरणत्वं, तस्य च कालरूपे उत्तरपदार्थे उपसङ्क्रमस्तदा `कण्ठे' इत्यस्याऽप्रथमान्तत्वाद्बहुव्रीहेरप्रसक्तेस्तत्र सप्तम्यन्तस्य पूर्वनिपातविधिरभित्तिचित्रायितः स्यात्। ततश्च सप्तमीग्रहणादप्रथमान्तोऽपि बहुव्रीहिः क्वचिदस्तीति विज्ञायते इति योज्यम्। तेन `सच्चास्त्रजन्मा हि विवेकलाभः' इत्यादि सिद्धम्। चित्रगुरिति। उभयोरपि प्रथमानिर्दिष्टत्वेन विग्रहे नियतविभक्तिकत्वेन चान्यतरस्य प#ऊर्वनिपाते प्राप्ते उत्तरपदविशेषणस्यैव पूर्वनिपातार्थं विशेषग्रहणमिति भावः।

रार्वः \उfffदोतो यस्येति विग्रहः। उभयोरपि गुमवचनत्वेन विशेषणविशेष्यभावे कामचारादन्यतरस्य पूर्वनिपाते प्राप्ते सर्वनामत्वात्सर्वशब्दस्यैव पूर्वनिपातः। उपसर्जनत्वेऽपि भूतपूर्वगत्या सर्वनामत्वम्। त्रिशुक्ल इति। त्रयः शुक्ला यस्येति विग्रहः। उभयोरपि कामचारेण पूर्वनिपाते प्राप्ते सङ्ख्यात्वत्रिशब्दस्यैव पूर्वनिपातः। `द्विशुक्ल' इत्यत्र तु सर्वनामत्वादेव सिद्धम्। अन्यौ यस्य द्व्यन्य इति बहुव्रीहौ सर्वनामसङ्ख्ययोरन्त्यतरस्य पाक्षिकः पूर्वनिपातः स्यादित्यत आह–मिथोऽनयोरिति। सर्वनामसङ्ख्ययोरित्यर्थः। सङ्ख्या पूर्वमिति। `प्रयोज्ये'ति शेषः। शब्दपरेति। एकस्मिन्नेव सूत्रे सर्वनामसङ्क्ययोः समासोपात्तत्वेऽपि सर्वनामसङ्क्याशब्दयो सङ्ख्याशब्दस्य पाठतः परत्वमादाय विप्रतिषेधसूत्रप्रवृत्तेरित्यर्थः। न्यूनाधिकसङ्ख्यावाचकशब्दानां समासे न्यूनसङ्ख्यायाः पूर्वप्रयोग इति वक्तव्यमित्यर्थः। द्वित्रा इति। द्वौ वा त्रयो वेति विग्रहे `सङ्ख्ययाव्यये'ति बहुव्रीहिः। `अल्पाच्तर'मिति सूत्रभाष्येऽस्य वार्तिकस्य पाठाद्बहुव्रीहौ कथमस्य प्रवृत्तिरित्यत आह–द्वन्द्वेऽपीति। इदंच वार्तिकं द्वन्द्वेऽद्वन्देऽपि प्रवर्तत इत्यर्थः। द्वादसेति। द्वौ च दश चे'ति द्वन्द्वः। तत्पुरुषे तु शतानां विंशतिः विंशतिशतमित्युदाहार्यम्। `तदस्मिन्निधिकमिति दशान्ताड्डः' इति सूत्रबाष्ये सहरुआआणां शतमित्यर्थे शतसहरुआमिति भाष्यकैयटयो प्रयोगोऽत्रमानमिति शब्देन्दुशेखरे स्थितम्।

इति। गडुः कण्ठे यस्येति विग्रहः। गडुर्नाम ग्रीवादिगतो दुर्मांसगोलः। असंज्ञात्वात् `हलदन्तात्' इत्यलुङ् न। क्वचिन्नेति। व्याख्यानमेवात्र शरणम्। वहेगडुरिति। वहः=स्कन्धः, तन्मिन् गडु-दुर्मांसग्रन्तिर्यस्येति विग्रहः। निष्ठा। निष्ठान्तमिति। `क्तक्तवतूनिष्ठे'ति वक्ष्यति, तदन्तमित्यर्थः। कृतकृत्य इति। कृतं कृत्यं येनेति विग्रहः। उभयोरपि क्रियाशब्दात्वाद्विशेषणत्वे कामचारादन्यतरस्य पूर्वनिपाते प्राप्ते निष्ठान्तस्य पूर्वनिपातः। `जातिकालसुखादिभ्योऽनाच्छादनात्क्तः, इति स्वरविधिना ज्ञापितमिदमिति भाष्ये स्पष्टम्। जातिपूर्वस्योदाहरणमाह–सारङ्गजग्धीति सारङ्गः=हरिणः, जग्धः=भक्षितो यया इति विग्रहः। `अस्वाङ्गपूर्वपदाद्वे'ति ङीष्। कालपूर्वस्योदाहरति–मासजातेति। मासो जातो यस्या इति विग्रहः। टाप्। सुखपूर्वस्योदाहरति–सुखजातेति। सुखं जातं यस्या इति विग्रहः। प्रायिकमिति। व्याख्यानमेवात्र शरणम्। कृतकट इति। कृतः कटो येनेति विग्रहः। उदकत्वस्य जातित्वेऽपि न पीतशब्दस्य परनिपातः।

तत्त्वबोधिनी

476 सप्तमीविशेषणे। यदा कण्ठे किंचिदस्तीति ज्ञायते, तस्य विशेषणं काल इथि, तदेदं सप्तमीग्रहणम्। अन्यदा तु तेन विनापि विसेषणत्वादेव सिद्धम्। चुत्रगुरिति। न च `उपसर्जनं पूर्व'मित्येवेदं सिध्यतीति वाच्यं, `बहुव्रीहौ सप्तमी'त्युक्ते तक्र कोण्ढिन्यन्यायेनोपसर्जनपूर्वत्वस्य बाधापत्तेरतो विशेषणग्रहणं कृतम्। यस्मात्सतपरः'इति , कथं च `जहत्स्वार्थे वृत्तिः'इति?। इह हि जहस्त्वं पदं यं स जहत्स्वः, सोऽर्थधो यस्यामिति बहुव्रीहिगर्भो बहुव्रीहिः। तथा च स्पपरशब्दयोः सर्वनामत्वात्पूर्वनिपातेन भाव्यमिति चेत्। अत्राहुः–सूत्र भाष्यप्रयोगात्स्वपरशब्दयोर्न पूर्वनिपातः। राजदन्तादित्वाद्वा सिद्धिमिति। द्विशुक्ल इति। यद्यपि सर्वनामत्वेनैव द्विशब्दस्य पूर्वनिपातत्वं सिध्यति, तथापि `त्रिशुक्ल'इत्यादिसिद्धये वार्तिके सङ्ख्याग्रहणं कृतम्। ननु सङ्ख्याया अल्पाच्तरत्वेन `सङ्ख्यासर्वनाम्नो'रिति वाच्ये विपरीतोच्चारणमयुक्तमित्याशङ्क्याह–। मिथोऽनयोरिति। विपरीतोच्चारणमेवात्र लिङ्गमिति भावः। अल्पीयस्या इति। अल्पार्थवाचिकाया इत्यर्थः। गड्वादेरिति। आदिशब्दः प्रकारवाची। तेन पद्मं नाभौ यस्य पद्मनाभः। ऊर्णा नाभौ यस्य। `ङ्यापोः–'इति ह्यस्वः। ऊरेंनाभ इति सिद्द्यतीत्याहुः। `जातिकालसुखादिभ्योऽनाच्छादना'दित्यनेन ज्ञापितमिति भावः। सारङ्गजग्धीति। सारङ्गो जग्धो यया सा। `अस्वाङ्गपूर्वपदाद्वे'ति ङीष्॥ कथं तर्हि `चारुस्मितश्चारुहसितः'इत्यादि\त्?। अत्राहुः–`नपुंसके भावे क्तः'इति क्तस्य न पूर्वनिपातः, निष्ठाशब्देन विहितस्यैवेह ग्रहणागदिति। निष्ठासप्तम्यौ। क्विचिन्नेति। आहिताग्न्यीदित्वकल्पनादनभिधानद्वेति भावः। \र्\निति तत्त्वबोधिनीव्याख्यायां बहुव्रीहिप्रकरणम्। भावकर्मप्रक्रिया।

Satishji's सूत्र-सूचिः

TBD.