Table of Contents

<<2-2-32 —- 2-2-34>>

2-2-33 अजाद्यदन्तम्

प्रथमावृत्तिः

TBD.

काशिका

द्वन्द्वे इति वर्तते। अजाद्यदन्तं शब्दरूपं द्वन्द्वे समासे पूर्वं प्रयोक्तव्यम्। उष्ट्रखरम्। उष्त्रशशकम्। बहुष्वनियमः। अश्वरथेन्द्राः। इन्द्ररथाश्वाः। द्वन्द्वे घ्यजाद्यदन्तं विप्रतिषेधेन। इन्द्राग्नी। इन्द्रवायू। तपरकरणं किम्? अश्वावृषौ, वृषाश्वे इति वा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

991 द्वन्द्वे पूर्वं स्यात्. ईशकृष्णौ..

बालमनोरमा

894 अजाद्यदन्तम्। इदमिति। अजादित्वे सत्यदन्तमित्यर्थः। ईशकृष्णाविति। अत्र कृष्णस्याऽदन्तत्वेऽप्यजादित्वाऽभावान्न पूर्वनिपातः। वक्तव्य' इति शेषः। किं न स्यादित्यत आह–ध्यन्तादिति। ध्यन्तशब्देन `द्वन्द्वे घी'ति सूत्रं विवक्षितम्। ल्यब्लोपे पञ्चमी। विप्रतिषेधसूत्रेण `द्वन्द्वे घी'त्येतद्बाधित्वा `अजाद्यदन्त'मिति प्रवर्तते इत्यर्थः।

तत्त्वबोधिनी

771 अजाद्यदन्तं। `समुद्राभ्राद्दः' `लक्षणहेत्वोः क्रियायाः' इत्यादिनिर्देशादनित्यमिदं प्रकरणम्। तेन `स सौष्ठ भारविप्रयोगः सङ्गच्छते।

Satishji's सूत्र-सूचिः

TBD.