TBD.
सङ्ख्या इत्यनुवर्तते। नदीवचनैः शब्दैः सह सङ्ख्या समस्यते, अव्ययीभावश्च समासो भवति। समाहारे च अयम् इष्यते। सप्तगङ्गम्। द्वियमुनम्। पञ्चनदम्। सप्तगोदावरम्।
TBD.
918 नदीभिः सह संख्या समस्यते. (समाहारे चायमिष्यते). पञ्चगङ्गम्. द्वियमुनम्..
666 नदीभिश्च। प्राग्वदिति। नदीभिः संख्या समस्यते सोऽव्ययीभाव इत्यर्थः। समाहारे चेति–वार्त्तिकम्। चकार एवार्थे। भाष्ये चकारविहीनस्यैव पाठात्। सप्तगङ्गमिति। सप्तानां गङ्गानां समाहार इति विग्रहे `तद्धितार्थोत्तरपदसमाहारे चे'ति द्विगुसमासं बाधित्वाऽव्ययीभावसमासः। द्वियमुनमिति। द्वयोर्यमुनयो समाहार इति विग्रहः। अत्र नदीशब्देन नदीशब्दविशेषस्य, नदीवाचकानां च ग्रहणमिति संख्यासंज्ञासूत्रे भाष्ये स्पष्टम्। तेन पञ्चनदं सप्तगोदावरमित्यादि सिध्यति।
590 नदीभिश्च। स्वरूपस्य संज्ञायाश्च नेह ग्रहणं, बहुवचननिर्देशात्, किं त्वर्थस्य। नच तस्य समासः संभवति, अतस्तद्वाचिनामयं समासः, ते च न केवलं विशेषशब्दा एव किंतु सामान्यशब्दोऽपि। तेन पञ्चनदं सप्तगोदावरमिति सिद्धम्। `गोदावर्याश्च नद्याश्चे'ति वक्ष्यमाणेन समासान्तोऽच्। चकारेण सङ्ख्येत्यनुकृष्यत इत्याह—संख्येति। स्यादेतत्–पुरस्तादपवादन्यायेन `पूर्वकालैके'त्यस्यैवेदं बाधकं स्यात्, ततश्चैवनदीत्यत्राव्ययोभावे तन्निबन्धनस्य `नदीपौर्णमास्ये'ति टचः प्रसङ्गः, समाहारे तु परत्वाद्द्विगुरेव स्यादित्यत आह–। चायमिष्यते। समाहारे चायमिति। एवकारार्थश्चाकारः। एवं च द्विगोरपवादोऽमव्ययीभाव इति फलितम्।
TBD.