Table of Contents

<<1-4-84 —- 1-4-86>>

1-4-85 तृतीयाऽर्थे

प्रथमावृत्तिः

TBD.

काशिका

अनुशब्दस् तृतीयार्थे द्योत्ये कर्मप्रवचनीयसंज्ञो भवति। नदीम् अन्ववसिता सेना। पर्वतम् अन्ववसिता सेना। पर्वतेन सम्बद्धा इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

541 तृतीयार्थे। अनुरित्यनुवर्तते। `कर्मप्रवचनीयाः' इत्यधिकृतम्। अस्मिन्द्योत्ये इति। `सहयुक्तेऽप्रधाने' इति तृतीयार्थे साहित्ये द्योत्ये इत्यर्थः। अत्र `तृतीयार्थे' इत्यनेन कर्तृकरणे न गृह्रेते, `रामेण शरेणानुहतो वाली'त्यत्र `उपपदविभक्तेः कारकविभक्तिर्बलीयसी' इति न्यायेन तृतीयाया एव प्रवृत्त्या अस्याः संज्ञायाः फलाऽभावात्। नापि `येनाङ्गविकारः' इति तृतीयार्थोऽत्र विवक्षितः, `अनन्तरस्ये'ति न्यायेन `कर्मप्रवचनीययुक्ते द्वितीया' इत्यस्य `सहयुक्तेऽप्रधाने' इत्यस्यैव बाधकत्वात्। तदाह-नद्या सह संबद्धेति। साहित्यं द्वितीयार्थः, अनुस्तद्ध्योतक इति भावः। नन्ववसितशब्दस्य अवपूर्वात् `षो अन्तकर्मणि' इति धातोरुत्पन्नत्वात्कथमुक्तार्थलाभ इत्यत आह-षिञ्बन्धने क्त इति। उपसर्गबलेन संबन्धवृत्तेरस्मात्क्तप्रत्यय इत्यर्थः। अत्र यदवश्यं पुनः पुनर्लक्ष्यस्य ज्ञापकं तदेव न लक्षणम्, किंतु सकृज्ज्ञापकमपि। यथा यं कमण्डलुना भवानद्राक्षीत्, स छात्र इति। सकृदेव हि कमण्डलुपाणिर्दृष्टः, तस्य कमण्डलुर्लक्षणमिति `अनुर्लक्षणे' इत्यत्र भाष्ये स्पष्ठम्। तेन व्याप्यात्मकलिङ्गमेवात्र लक्षममिति न भ्रमितव्यम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.