TBD.
मृष तितिक्षायाम् स्वरितेत्। ततः तथा एव आत्मनेपदे प्राप्ते परस्मैपदं विधीयते। परिपूर्वाद् मृष्यतेः परस्मैपदं भवति। परिमृष्यति, परिमृष्यतः, परिमृष्यन्ति। परेः इति किम्? आमृष्यते। वहतिम् अपि केचिदत्र अनुवर्तयन्ति परिवहति।
TBD.
751 परिमृष्यति..
574 परेर्मृषः। `परस्मैपद'मिति शेषः। `मृष तितक्षाया'मिति दैवादिकस्य स्वरितेत्त्वात्पदद्वये प्राप्तेऽयं विदिः। तदाह–परिमृष्यतीति। चौरादिकस्याऽपि `आधृषाद्वे'ति णिजभावे स्वरितेत्त्वेऽपि परस्मैपदमेव- परिमर्षतीति। भौवादिकस्य त्विति। `मृषु सहने सेचने चे'ति भौवादिकस्यतु परस्मैपदित्वात्परिमर्षतीत्येव रूपं सिद्धम्। अतोऽमिन् सूत्रे तस्य न ग्रहणमिति भावः। इहेति। `परे' रिति योगो विभज्यते। `वह' इत्यनुवर्तते। परेर्वहः परस्मैपदमित्यर्थः। परिवहति। `मृष' इति योगान्तरम्। तत्र परेरित्यनुवर्तते, परेर्मृषः पर्समैपदमित्युक्तोऽर्थ इति केचिदाहुरित्यर्थः। भाष्ये त्वयं योगविभागो न दृश्यते। रमः।1।3।83। रमेरनुदात्तेत्त्वाद्विधिरयम्। विरमतीति। आरमति, परिरमतीत्यप्युदाहार्यम्।
472 स्वरित्वात्पदद्वये प्राप्तेऽयमारम्भः। परिमर्षतीति। `आ धृषाद्वे'ति ति वैकल्पिकत्वाण्णिजभावः।
TBD.