Table of Contents

<<1-3-42 —- 1-3-44>>

1-3-43 अनुपसर्गाद् वा

प्रथमावृत्तिः

TBD.

काशिका

क्रमः इति वर्तते। अप्राप्तविभाषेयम्। उपसर्गवियुक्तात् क्रमतेरात्मनेपदं वा भवति। क्रमते। क्रामति। अनुपसर्गातिति किम्? सङ्क्रामति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

540 अनुपसर्गाद्वा। `कर्म आत्मनेपद'मिति शेषः। अप्राप्तविभाषेयमिति। अनुपसर्गात् क्रमेरात्मनेपदस्य कदाप्यप्राप्तेरिति भावः। वृत्त्यादाविति। वृत्तिसर्गतायनेषु तु पूर्वविप्रतिषेधान्नित्यमेवेत्यर्थः।

तत्त्वबोधिनी

455 वृत्त्यादौ त्विति। न च वृत्त्यादिसूत्रं सोपसर्गे चरितार्थमित्यनुपसर्गात्क्रमेर्वृत्त्याद्यर्थेऽपि विभाषैवाऽस्त्विति वाच्यम्, `उपपराभ्या'मिति नियमस्योक्तत्वात्।

Satishji's सूत्र-सूचिः

TBD.