Home » Documents » रामायणम् part II

रामायणम् part II

ओ३म्

त्रयस्त्रिंशः सर्गः

तस्यां निश्चितसीतात्वोऽपि हनुमांस्तन्मुखाच्छुश्रूषुः सुरस्त्रीत्वादिनानाविकल्पैः प्रश्नपूर्वकं सीताऽसि तर्ह्याचक्ष्वेति पृच्छति । रावणकृतस्वापहरणान्तं निखिलवृत्तं निवेदयन्ती सीता रावणेन निश्चितमारणस्य मासद्वयावशेषस्तदवधिमोचनाभावे स्वयमेव जीवितं त्यक्ष्यामीति प्रतिजानीते ।।

Keen to hear of Sītā’s identity from her own lips, even though he had identified her, Hanumān inquires of her whether she was a goddess or anyone else and asks her to disclose her identity in case she was Sītā. In reply to this query Sītā narrates to him her whole life-story ending with her abduction by Rāvaṇa and tells him how Rāvaṇa was going to kill her two months later, and how in the event of her not being delivered from his clutches before that she has resolved to end her life by herself.

April 28, 2012

सीतायाः भावः सीतात्वम् 5-1-119
निश्चितं सीतात्वं येन सः = निश्चितसीतात्वः 2-2-24

तस्याः मुखं = तन्मुखम्
तद् ङस् + मुख सुँ 2-2-8
= तद् + मुख 2-4-71, 2-2-26 वार्त्तिकम् “सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः”
= तन्मुख 8-4-45 वार्त्तिकम् “प्रत्यये भाषायां नित्यम्”, 1-2-46

श्रोतुम् इच्छुः = शुश्रूषुः
श्रु श्रवणे १.१०९२
श्रु + सन् 3-1-7
= श्रु + स 1-3-3, 1-3-9. 7-2-10 stops 7-2-35. Note: As per 1-2-9, the affix सन् is कित् here. Hence 1-1-5 stops 7-3-84.
= श्रुस् श्रुस 6-1-9
= शु श्रुस 7-4-60
= शु श्रूस 6-4-16
= शुश्रूष 8-3-59, 3-1-32

शुश्रूष + उ 3-2-168
= शुश्रूष् + उ 6-4-48
= शुश्रूषु

सुराणां स्त्री = सुरस्त्री 2-2-8
सुरस्त्रियाः भावः = सुरस्त्रीत्वम् 5-1-119
सुरस्त्रीत्वम् आदि: येषां ते सुरस्त्रीत्वादयः 2-2-24
नाना (विविधाः) च ते विकल्पाः च = नानाविकल्पाः 2-1-57
सुरस्त्रीत्वादयश्च ते नानाविकल्पाः = सुरस्त्रीत्वादिनानाविकल्पाः 2-1-57
तैः सुरस्त्रीत्वादिनानाविकल्पैः

चक्षिँङ् व्यक्तायां वाचि । अयं दर्शनेऽपि २.७
चक्ष् + लोँट् 1-3-2, 1-3-3, 1-3-9, 3-3-162
= चक्ष् + ल् 1-3-2, 1-3-3, 1-3-9
= चक्ष् + थास् 3-4-78, 1-3-12
= चक्ष् + से 3-4-80
= चक् ष् + स्व 3-4-91
= च ष् + स्व 8-2-29
= च क् + स्व 8-2-41
= चक्ष्व 8-3-59
आङ् + चक्ष्व = आचक्ष्व 1-4-59, 1-4-80, 1-3-3, 1-3-9

प्रश्नपूर्वकम् derived similar to हितोपदेशपूर्वकम् above.

प्रच्छँ ज्ञीप्सायाम् ६.१४९
पृच्छति derived similarly as अनुपृच्छसि posted on October 25, 2011. http://avg-sanskrit.org/2011/10/25/अनुपृच्छसि-2as-लँट्/

रावणेन कृतम् = रावणकृतम् 2-1-32
स्वस्याः अपहरणम् = स्वापहरणम् 2-2-8, 2-2-26 वार्त्तिकम् “सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः”
रावणकृतं च तत् स्वापहरणम् = रावणकृतस्वापहरणम् 2-1-57
रावणकृतस्वापहरणम् अन्तः यस्य तत् (adjective to निखिलवृत्तम्) = रावणकृतस्वापहरणान्तम्

निखिलवृत्तम् 2-1-57

निवेदयन्ती derived similar to बोधयन्ती above.

द्वौ अवयवौ यस्मिन् तत् द्वयम्
द्वि औ + तयप् 5-2-42
= द्वि + अयच् 5-2-43, 1-2-46, 2-4-71
= द्वि + अय 1-3-3, 1-3-9
= द् व् + अय 1-4-18, 6-4-148
= द्वय

मासयोः द्वयम् = मासद्वयम् 2-2-8
मासद्वयम् एव अवशेषः = मासद्वयावशेषः 2-1-57
तस्य अवधिः = तदवधिः 2-2-8
तदवधौ मोचनम् = तदवधिमोचनम् 2-1-40 (योगविभागः)
अभावः 2-2-6, 6-3-73
तदवधिमोचनस्य अभावः = तदवधिमोचनाभवः 2-2-8, 6-1-101
तस्मिन् तदवधिमोचनाभावे

त्यजँ हानौ १.११४१
त्यज् + लृँट् 3-3-13
= त्यज् + मिप् 3-4-78
= त्यज् + स्य + मिप् 3-1-33
= त्यज् + स्य + मि 1-3-3, 1-3-9. 7-2-10 stops 7-2-35.
= त्यज्स्यामि 7-3-101
= त्यग्स्यामि 8-2-30
= त्यग्ष्यामि 8-3-59
= त्यक्ष्यामि 8-4-55

ज्ञा अवबोधने ९.४३
ज्ञा + लँट् 3-2-123
= ज्ञा + त 3-4-78, 1-3-46 (ref गीता – प्रतिजाने प्रियोऽसि मे || 18-65||)
= ज्ञा + ते 3-4-79
= ज्ञा + श्ना + ते 3-1-81
= ज्ञा + ना + ते 1-3-8, 1-3-9
= जा + ना + ते 7-3-79
= जानीते 6-4-113

द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः । ऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस्त्यक्ष्यामि जीवितम् ।। ५-३३-३१ ।।

A period of two months has been allowed to me by him to live on sufferance. After the said two months, however, I shall give up the ghost.

जीवित 3-3-114
अनुगृह्णाति इति अनुग्रह:।
अनु ग्रह् + अच् 3-1-134
= अनुग्रह 1-3-3, 1-3-9
जीवितस्य अनुग्रहः जीवितानुग्रहः 2-2-8, 6-1-101 = जीवितधारणानुकूल: = जीवनावधिरित्यर्थ:।

तत: = ताभ्याम् 5-3-7

चतुस्त्रिंशः सर्गः

स्वप्रश्नस्य समुचितोत्तरप्राप्त्या स्वस्मिञ्जानक्या आश्वासं संभावयन्हनुमान्स्वस्य रामदूतत्वं निवेदयन्रामलक्ष्मणकर्तृककुशलप्रश्नान्निवेदयति । पादाभिवादनार्थं समीपमुपसर्पन्तं हनुमन्तं वेषान्तरितं रावणं मन्वाना सीता विनिन्दति । स्वस्मिन्रावणत्वशङ्कां निराकरिष्णुर्हनुमान्स्वस्य सुग्रीवसचिवत्वं हनुमदिति नाम च निवेद्य स्ववचःश्रद्धेयत्वे प्रार्थयते ।

Inferring from the suitable reply to his queries received from Sītā and the trust reposed in him by the latter, Hanumān reveals to her the role of an envoy allotted to him by Śrī Rāma and repeats the inquiries made by the two brothers about her welfare. Taking him to be Rāvaṇa disguised as a monkey, Sītā, on the other hand, reproaches him when the latter approaches her in order to bow down at her feet. In order to allay her fears, Hanumān for his part discloses to her his reality as a minister of Sugrīva as well as requests her to give credence to his words.

स्वस्य प्रश्नः = स्वप्रश्नः 2-2-8

समुचितं च तदुत्तरम् = समुचितोत्तरम् 2-1-57, 6-1-87
समुचितोत्तरस्य प्राप्तिः = समुचितोत्तरप्राप्तिः 2-2-8
तया समुचितोत्तरप्राप्त्या

स्वस्मिन् जानक्याः = स्वस्मिञ्जानक्या: 8-4-40

संभावयति इति संभावयन्
भू + णिच् = भावि 3-1-26, 1-3-7, 1-3-3, 7-2-115, 6-1-78, 3-1-32
भावि + लँट् 3-2-123
= भावि + शतृँ 3-2-124
= भावि + शप् + शतृँ 3-1-68
= भावे + अ + अत् 1-3-8, 1-3-3, 1-3-2, 1-3-9, 7-3-84
= भावय + अत् 6-1-78
= भावयत् 6-1-97

संभावयत् 2-2-18
संभावयत् + सुँ 4-1-2 = संभावयन् 7-1-70

रामस्य दूतः = रामदूतः 2-2-8
रामदूतस्य भावः = रामदूतत्वम् 5-1-119

निवेदयति इति निवेदयन्
विदँ ज्ञाने २. ५९
विद् + णिच् = वेदि 3-1-26, 7-3-86, 3-1-32
वेदयन् is derived similar to भावयन् shown earlier

रामश्च लक्ष्मणश्च = रामलक्ष्मणौ 2-2-29
रामलक्ष्मणौ कर्तारौ येषां ते = रामलक्ष्मणकर्तृकाः (adjective to प्रश्नाः) 2-2-24, 5-4-153
कुशलस्य प्रश्नाः = कुशलप्रश्नाः 2-2-8
रामलक्ष्मणकर्तृकाश्च ते कुशलप्रश्नाश्च = रामलक्ष्मणकर्तृककुशलप्रश्नाः 2-1-57
तान् रामलक्ष्मणकर्तृककुशलप्रश्नान्

पादयोः अभिवादनम् = पादाभिवादनम् 2-2-8, 6-1-101
पादाभिवादनाय इदम् = पादाभिवादनार्थम् 2-1-36, वार्त्तिकम् – “अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्”

अन्यः वेषः = वेषान्तरम् 2-1-72
वेषान्तरम् अस्य संजातम् = इति वेषान्तरितः 5-2-36
तं वेषान्तरितम्

रावणस्य भावः = रावणत्वम् 5-1-119
रावणत्वस्य शङ्का = रावणत्वशङ्का 2-2-8
तां रावणत्वशङ्काम्

कृ + इष्णुच् 3-2-136 (ताच्छील्ये)
= करिष्णु 1-3-3, 1-3-9, 7-3-84, 1-1-51
निराकरिष्णु 2-2-18

धेय 3-1-97, 6-4-65
श्रद्धेय 2-2-18, श्रच्छब्दस्य उपसङ्ख्यानम् – वार्त्तिकम् under 1-4-59
श्रद्धेयस्य भावः = श्रद्धेयत्वम् 5-1-119
स्वस्य वचः = स्ववचः 2-2-8
स्ववचसां श्रद्धेयत्वम् = स्ववचःश्रद्धेयत्वम् 2-2-8
तस्मिन् श्रद्धेयत्वे

अथवा नायमुन्मादो मोहोऽप्युन्मादलक्षणः । सम्बुध्ये चाहमात्मानमिमं चापि वनौकसम् ।। ५-३४-२४ ।।

Or this may not be (a case of) insanity, nor even delusion showing symptoms similar to those of insanity; for I am conscious of my own self as well as of this monkey.

मदीँ हर्षे ४.१०५
उद् + मद् + घञ् 3-3-18, 2-2-18. Note: 3-3-67 does not apply.
= उन्माद 1-3-3, 1-3-8, 1-3-9, 7-2-116, 8-4-45,  1-2-46
उन्मादस्य लक्षणमिव लक्षणं यस्य स: = उन्मादलक्षणः (adjective to मोहः) 2-2-24 वार्त्तिकम् – सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्च

Example in गीता 1-15 – वृकोदर:।

बुधँ अवगमने ४.६८
बुध् + लँट् 3-2-123
= बुध् + इट् 3-4-78
= बुध् + ए 1-3-3, 1-3-9, 3-4-79
= बुध् + श्यन् + ए 3-1-69. श्यन् is ङित्-वत् as per 1-2-4. Hence 1-1-5 stops 7-3-86.
= बुध् + य + ए 1-3-3, 1-3-8, 1-3-9
= बुध्ये 6-1-97
सम् + बुध्ये = सम्बुध्ये 1-4-59, 1-4-80

वनमोको यस्य सः = वनौकाः 2-2-24, तम् ।

पञ्चत्रिंशः सर्गः

दूतयाथार्थ्यं विज्ञातुकामया जानक्या पृष्टो हनुमांस्तयोरङ्गलक्षणादि निरूपयन्स्वीयोत्पत्तेरारभ्य सुग्रीवसाचिव्यादि सीतादर्शनान्तं स्वेतिवृत्तं कथयति ।

Interrogated by Sītā, who was anxious to ascertain the bonafides of the monkey, Hanumān after cataloguing the marks on the person of Śrī Rāma and Lakṣmaṇa, narrates his own life-story from his birth onwards including his role as a minister of Sugrīva, and ending with his sight of Sītā.

अर्थम् अनतिक्रयम्य यथार्थम् 2-1-6
यथार्थम् एव याथार्थ्यम् 5-1-124

दूतस्य याथार्थ्यम् दूतयाथार्थ्यम् 2-2-8

विज्ञातुं कामा विज्ञातुकामा 6-3-109 (तुंकाममनसोरपि)
तया विज्ञातुकामया

अङ्गानां लक्षणानि अङ्गलक्षणानि 2-2-8
अङ्गलक्षणानि आदीनि यस्य तत् अङ्गलक्षणादि 2-2-24

स्वस्य इयम् (उत्पत्तिः) = स्वीया

स्व + छ 4-3-120, 4-2-138 वार्त्तिकम् – स्वस्य च, 1-1-46 “आगमशास्त्रमनित्यम्” इति “कुँकः” अभावे
= स्व + ईय 7-1-2
= स्वीय 1-4-18, 6-4-148
स्त्रियाम् –
स्वीय + टाप् 4-1-4 = स्वीया 1-3-7, 1-3-3, 6-1-101
स्वीयायाः उत्पत्तिः स्वीयोत्पत्तिः 2-2-8
तस्याः स्वीयोत्पत्तेः

सुग्रीवस्य सचिवः सग्रीवसचिवः 2-2-8
सग्रीवसचिवस्य भावः सग्रीवसाचिव्यम् 5-1-124
सग्रीवसाचिव्यम् आदि यस्य तत् सग्रीवसाचिव्यादि 2-2-24

सीतायाः दर्शनम् = सीतादर्शनम् 2-2-8
सीतादर्शनम् अन्तं यस्य तत् (वृत्तम्) सीतादर्शनान्तं 2-2-24
सग्रीवसाचिव्यादि च तत् सीतादर्शनान्तं सुग्रीवसाचिव्यादिसीतादर्शनान्तं 2-1-57

यस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि । हनूमानिति विख्यातो लोके स्वेनैव कर्मणा ।। ५-३५-८३ ।।

Begotten by the wind-god, O princess of Mithilā, through the consort of that monkey, I am called Hanumān and known all over the world for my own exploits.

षट्त्रिंशः सर्गः

स्वस्मिन्नाश्वासं द्रढयितुं हनुमान्रामाङ्गुलीयकं जानक्यै प्रददाति । तल्लाभहृष्टा सा हनुमन्तं प्रशंस्य रामादिकुशलं पृच्छति । एतावत्पर्यन्तं रामानागमनात्स्वस्यामप्रीतिं विशङ्क्य जातक्रोधां तां परिसान्त्वयि तुं हनुमानवस्थानापरिज्ञानमेवानागमने हेतुरित्यभिधत्ते । तस्यां रामस्य प्रीत्यतिशयं द्योतयन्हनुमान् रामस्य शोकावस्थां प्रतिपादयँस्त्वत्प्राप्तये सोऽतिप्रयत्नमातनोतीति कथयन्समाश्वासयति ।

Hanumān delivers Śrī Rāma’s signet ring to Sītā in order to strengthen her confidence in him. Applauding Hanumān, Sītā, who was rejoiced to receive the token, inquires about the health of Śrī Rāma and others. In order to appease the lady, who felt indignant at the thought that Śrī Rāma did not care to come to her rescue so far, which led her to suspect that he had ceased to love her, Hanumān attributes his non-appearance to his ignorance about her whereabouts. Describing Śrī Rāma’s desolation in order to betoken his excessive love for her, he consoles her with the assurance that Śrī Rāma is sparing no pains to rescue her from her confinement.


Leave a comment

Your email address will not be published.

Recent Posts

March 2024
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics