<<7-1-23 —- 7-1-25>>

7-1-24 अतो ऽम्

प्रथमावृत्तिः

TBD.

काशिका

अकारान्तान्नपुंसकादुत्तरयोः स्वमोः अम् इत्ययम् आदेशो भवति। कुण्डं तिष्ठति।
कुण्डं पश्य। पीठम्। मकारः कस्मान् न क्रियते? धीर्घत्वं प्राप्नोति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

235 अतोऽङ्गात् क्लीबात्स्वमोरम्. अमि पूर्वः. ज्ञानम्. एङ्ह्रस्वादिति हल्लोपः.
हे ज्ञान..

बालमनोरमा

307 ज्ञानशब्दात्सुः `स्वमोर्नपुंसका'दिति तस्य लुकि प्राप्ते–अतोऽम्। `अत' इति
पञ्चमी। `अङ्गस्ये'त्यधिकृतं पञ्चम्या विपरिणम्यते, `अत' इत्यनेन विशेष्यते। तेन
तदन्तविधिः। `स्वमोर्नपुंसका'दित्यनुवर्तते। तदाह–अतोऽङ्गादिति।
अदन्तादङ्गादित्यर्थः। ज्ञानमिति। सोरमि कृते अमि पूर्वरूपमिति भावः। अमोऽम्विधानं
तु `स्वमोर्नपुंसका'दिति लुङ्निवृत्त्यर्थम्। ननु `अतो-म्' इत्येवच्छेदोऽस्तु।
सोर्मकारादेशे ज्ञानमिति सिद्धेः। अमि च `आदेः परस्ये'त्यकारस्य मकारेऽन्त्यस्य
मकारस्य संयोगान्तलोपेनैव ज्ञानमिति सिद्धेरिति चेत्, मैवम्-एवं सति ज्ञानमित्यत्र
`सुपि चे'ति दीर्घापत्तेः। न च अदन्तसंनिपातमाश्रित्य प्रवृत्तस्य मादेशस्य
तद्विघातकदीर्घनिमित्तत्वं न संभवति, संनिपातपरिभाषाविरोधादिति वाच्यं, `सुपि
चे'ति दीर्घे कर्तव्ये संनिपातपरिभाषाया अप्रवृत्तेरित्युक्तत्वादित्यलम्।
ज्ञानेति। हे ज्ञानस् इति स्थिते सोरमि कृते पूर्वरूपे `एङ्ह्यस्वा'दिति मकारलोपे
हे ज्ञानेति रूपम्। नन्वेङ्ह्यस्वादित्यत्र संबुद्ध्याक्षिप्तस्य संबुद्धयैवान्वय
उचितः, ततश्च एङन्ताध्यस्वान्ताच्चाङ्गात् परा या संबुद्धिस्तदवयवस्य हलो लोप इति
लभ्यते। ततश्च प्रकृते पूर्वरूपे कृते तस्य पूर्वान्तत्वाश्रयणे
ज्ञानेत्यदन्तमङ्गम्। ततः परा संबुद्धिर्नास्ति, मकारमात्रस्याऽसंबुद्धित्वात्,
सुस्थानिकस्याम एव संबुद्धित्वात्, अद्र्धविकारेण एकदेशविकृतन्यायानवताराच्च। न च
पूर्वरूपात्प्राक् `एङ्ह्यस्वा'दित्यस्य प्रवृत्तिः किं न स्यादिति वाच्यं,
परत्वात्पूर्वरूपस्यैव पूर्वं प्रवृत्तेः। न च
पूर्वान्तत्वात्पूर्वरूपस्याऽङ्गन्तर्भावाज्ज्ञानेत्यदन्तमङ्गम्, परादित्वाच्च अम्
इत्यस्य संबुद्धित्वं चेत्याश्रित्य तदवयवहलो मकारमात्रस्य `एङ्ह्यस्वा'दिति लोपो
निर्बाध इति वाच्यम्, `उभयत आश्रयणे नान्तादिव'दिति निषेधादित्यत आह–
एङ्ह्यस्वादिति हल्मात्रलोप इति। पूर्वरूपे कृते संबुद्धेर्मकारमात्रं यत्
परिशिष्टं तस्य `एङ्ह्यस्वा'दिति लोप इत्यर्थः।
लक्ष्यानुरोधात्संबुद्ध्याक्षिप्तमङ्गं संबुद्धौ नान्वेति, किंतु
संब#उद्ध्यवयवहल्येवान्वेति। ततश्च एङन्ताद्ध्रस्वान्ताच्चाङ्गात्परो यः
संबुद्ध्यवयवहल् तस्य लोप इति लभ्यते। प्रकृते च पूर्वरूपे कृतेऽपि
ह्यस्वान्तादङ्गात्परत्वं संबुद्ध्यवयवस्य मकारमात्रस्य अस्त्येवेति तस्य
`एह्ह्यस्वा'दिति लोपो निर्बाध इत्यन्यत्र विस्तरः।

तत्त्वबोधिनी

269 अथाजन्ता नपुंसकलिङ्गाः। अतोऽम्। `अत'इत्येतदधिकृतस्याऽङ्गस्य विशेषणं,
`स्वमोर्नपुंसका'–दिति चानुवर्तत इत्याशयेनाह—अतोऽङ्गादित्यादि।
अदन्तादङ्गदित्यर्थः। स्वमोरिति। अमोऽम्विधानं `स्वमोर्नपुंसका'दिति प्राप्तस्य
लुको बाधानार्थम्। अम्स्यादिति। यद्यपि `म्' इत्येवच्छित्त्वा सोर्मे कृते
संनिपातपरिभाषया `सुपि चे'ति दीर्घत्वाऽप्रसक्त्या `ज्ञान'मिति रूपं सिध्यिति।
द्वितीयैकवचने तु `आदेः परस्ये'त्यकारस्य मकारे कृतेऽन्त्यस्य मस्य संयोगान्तलोपे
सिद्धमिष्टम्, तथापि `संयोगान्तलोपो झलः'इत्यभिप्रायेणेदं
व्याख्यातम्।
तद्रभसात्। सोरमि कृते संनिपातपरिभाषया जरसादेशस्याऽप्रवृत्त्या `अतिजर'मिति
रूपस्यैवेष्यमाणत्वात्। द्वितीयैकवचने तु `अतोऽ'मिति बाधित्वा परत्वाज्जरसि कृते
संनिपातपरिभाषया लिकोऽप्रवृत्तावतिजरसमिति रूपसिद्धेश्चेति दिक्। ज्ञानमिति।
ज्ञप्तिज्र्ञानम्। ल्युट्। `युवोरनाकौ'।`कृत्ताद्धिते'ति
प्रातपदिकत्वात्स्वाद्युत्पत्तिः। हल्मात्रेति। `हे ज्ञान सु'इति स्थिते
संबुद्धिलोपात्परत्वादमादेशे कृते अमि पूर्वत्वे च
तस्याऽन्तवद्भावाद्भस्वान्तमङ्गं भवतीति ततः संबुद्धिसंबन्धिनो मकारस्य लोप
इत्यर्थः।

Satishji's सूत्र-सूचिः

143) अतोऽम् 7-1-24



वृत्ति: अतोऽङ्गात् क्लीबात् स्वमोरम्। The affixes “सुँ” and “अम्” that follow a neuter अङ्गम् ending in the short vowel “अ” take “अम्” as their replacement.



गीतासु उदाहरणम् – श्लोकः 10.38



ज्ञान + सुँ 4-1-2स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ । = ज्ञान + अम् 7-1-24 = ज्ञानम् 6-1-107



श्लोकः 9.1



ज्ञान + अम् 4-1-2 = ज्ञान + अम् 7-1-24 = ज्ञानम् 6-1-107


sutras/7-1-24.txt · Last modified: 2013/10/11 15:23 (external edit)
 
Except where otherwise noted, content on this wiki is licensed under the following license: GNU Free Documentation License 1.3
Recent changes RSS feed Donate Powered by PHP Valid XHTML 1.0 Valid CSS Driven by DokuWiki